________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्ड्यन्ते दुजाश्चौरा, न्यायो यत्र प्रजोपरि ॥ प्रजासु वर्तते शान्ति, नश्यन्त्यभीत्यशान्तयः ॥१०॥ प्रजासु सदृशं प्रेम, दीनोपरि दयां कुरु ॥ न प्रजाभ्यो मनो भिन्नं, स्वार्थान्धं नैव मानसम्॥११॥ प्रजार्थ जीवनं श्रेष्ठं, नीत्या देशं सुधारयेत् ॥ प्रजोपकारिकार्याणि, यश्च कामविवर्जितः ॥ १२ ॥ सात्त्विकाहारतो रक्ष, तनुं क्रोधो न धर्मिषु । कुरु सत्यधिया कर्म, मृषा मा वद भीतितः ॥ १३ ॥ राज्यं साक्षितया कुर्व,-नुत्तारय निजं स्वयम् ॥ सर्वेषां सदृशो न्याय, स्ततोदूरमशान्तयः ॥ १४ ॥ दण्ड्यन्तेऽन्यायतो लोका, श्राकुलास्तदुपद्रवात् ।। मार्यन्ते धर्मिणो यत्र, न सुखं देशराज्ययोः ॥१५॥ अधर्मिणो नृपा यत्र, लोकानां न सुखं क्वचित् ॥ दुष्टभूपेन शान्ति ने, वर्द्धते न प्रजोन्नतिः ॥ १६ ॥ राज्यं प्रजानुकूलं हि, स्थापयेत्सैव भूपतिः॥ यत्स्वभावोऽबलः क्रूर:, संघस्तं परिवर्तयेत् ॥ १७ ॥ सर्वलोकः सुखी यत्र, न्यायो यत्र सुखप्रदः ।। प्रजासंघाग्रणीरेवं, प्रधानोऽस्तु च सैन्यपः ॥ १८ ॥ राज्याश्चि गुणा यत्र, विधेयः सैव भूपतिः ॥ न विना गुणकर्मभ्यां, प्रजासम्मतितो नृपः ॥ १९ ॥
For Private And Personal Use Only