________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कार
(१२) श्रेयोऽस्तु स्वीयमित्राणां, वैरिणां च विशेषतः । श्रेयोऽस्तु विश्वजीवानां, स्वदेशं यान्तु मानवाः॥८॥ सर्वदर्शन धर्मेषु, साम्यभावो धृतो मया । रागो रोषो न मे किञ्चित्, सर्वदर्शनधर्मिषु ॥ ८१ ॥ कामादिवासनानाशात्, क्षणान्मुक्तो जनो भवेत् । कामादिमुक्तितो मुक्तिः, समाधिश्च स्वभावतः ॥८॥ आत्मन्येव समाधिस्ते, मान्यत्र त्वं परिभ्रम । आत्मानन्दः समाधिर्हि, साम्येन जायते खलु ॥३॥ अनन्तमृत्युजन्मादि, पर्यवाः कर्मणा कृताः । श्रास्मसमाधियोगेन, क्षणानश्यन्ति जागृहि ॥ ८४॥ मृत्युजन्मादिपर्यायाः, कर्मणां न चिदाऽऽत्मनः । इत्येवं निश्चयं पूर्ण, कृत्वाऽऽत्मानं भृशं स्मर ॥८५॥ क्षुत्समा वेदना नास्ति, नास्ति मृत्युसमं भयम् । मृत्युतोऽपि न भीतोऽह, माऽऽत्मज्ञानप्रतापतः ॥८६॥ अकालोऽस्ति निजाऽऽत्मा वै, शुद्धनिश्चयदृष्टितः । शुद्धाऽऽत्मा चित्तदेहादे,-भिन्नोऽस्मि तत्र नास्ति मे।८७। सत्वरजस्तमोवृत्ति,-समाधिर्न निजाऽऽत्मनः । शुद्धाऽऽत्मनः समाधिस्तु, शुद्धज्ञानादिधर्मवान् ।।८८४ अतीत त्रिगुणेभ्यो यः, स समाधिरपेक्षया । समाधिसाधनाद्भिन्नः, शुद्धाऽऽत्मा व्यापकः प्रभुः॥८६॥
For Private And Personal Use Only