SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मित्रशत्रुषु रागं वा, द्वेषं किञ्चिन्न धारय । कर्मणामनुसारेण, मित्राणि शत्रवश्च ते ॥७॥ वैरिणः प्रति मा वैरं, कुरुष्व भव्यचेतन ! वैरस्य प्रतिकर्मत्वं, मा कुरु वैरबुद्धितः ॥७१ ॥ वैरिणां नाशत: शिक्षा, वैरिणां न मिलत्यहो । वैरेण वर्द्धते वैरं, वैरं ज्ञानेन नश्यति ॥७२॥ यावत्ते वैरभावोऽस्ति, तावच्छान्ति न जायते । समाधिर्जायते नैव, वैरेण कर्म वर्धते ॥७३ ॥ केऽपि शुभं न कुर्वन्ति, पुण्योदयं विना च ते । केऽप्यशुभं न कुर्वन्ति, पापोदयं विना च ते ॥७४ ॥ पुण्यं पापं न ते रूपं, त्वत्तो भिन्नं विचारय । द्वाभ्यां भिन्नश्चिदानन्द, आत्मासि सन्निरञ्जनः ।।७५॥ मित्रं शत्रुन ते कोऽपि, त्वं चिदानन्दरूपवान् । नाकाशस्येव संयोगो, वियोगश्च हि निश्चयात् ॥७६॥ एकाऽऽत्मा व्यापको नित्यः, संग्रहनयसत्तया । स्मरामि ह्याऽऽत्मनः सत्तां, यथा मुक्तिःक्षणाद्भवेत्।७७। यदा तदा शरीरादे, म॒त्युतो न बिभेम्यहम्। . भयं द्वैताद्भवत्येव, निर्भयोऽद्वैतभावतः ॥ ७८ ।। स्तुतिनिन्दासु साक्ष्याऽऽत्मा, जातोऽहमुपयोगतः। देषोरागो न मे कश्चित् , स्तुतिनिन्दाप्रकर्तृषु ॥७॥ For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy