SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ६० ) देहादिजडभावेषु, रागो रोषश्च नास्ति मे । रागो रोषो न जीवेषु, सर्वान् क्षमापयाम्यहम् ॥६०॥ श्रहं त्वं च ममत्वं हि नास्ति किञ्चिश्चराचरे । अहं त्वं च ममत्वं च विना जीवामि चिद्यनः ॥ ६१ ॥ चिदानन्दस्वरूपेण, जीवनं मे सनातनम् । C missarai मिथ्या, ज्ञात्वा भूतः समाधिमान् ॥६२॥ बाह्यसमाधितोऽनन्त, - गुणश्रेष्ठाः समाधयः । श्रन्तरो मे स्वरूपोऽस्ति, चिदानन्दमयः खलु ॥ ६३ ॥ बाह्यान्तरममत्वस्य, त्यागान्मेऽस्ति सुखं भृशम् । मत्तद्भावो न मे चित्ते, स्मरामि चिद्धनं निजम् ॥ ६४॥ ब्रह्मरूपेण पश्यामि, सर्वजीवान्समाधितः । आत्मरूपं प्रति प्रेम्णा, गच्छामि हि प्रतिक्षणम् ॥ ६५ ॥ विश्वजीवान्नमस्कृत्य, स्वदेशं यामि निश्चलम् । सन्तश्चलन्तु सत्प्रीत्या, स्वदेशं प्रति सत्वरम् ||६६ || प्रणामोऽस्तु प्रणामोsस्तु, सर्वविश्वस्थदेहिनाम् । यूयमेवाहमाऽऽत्मास्मि, वस्तुतो ब्रह्मसत्तया । ६७ ।। कषायो जायते शीघ्रं, पुद्गलारोपतो मयि । वैभाविकी दशा मिथ्या, तत्र मे नास्ति किञ्चन ॥६८॥ कर्मणामनुसारेण, सर्वजीवप्रवृत्तयः । शुभाश्च शुभाः सन्ति, तत्र साम्यं प्रधारय ॥ ६६ ॥ For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy