SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ५९ ) प्रतिक्षणं स्मराऽऽत्मानं, चिदानन्दमयं प्रभुम् । सतया परमाऽऽत्मान, मनन्तशक्तिसंयुतम् ॥ ५० ॥ न त्वं प्राणा न देहोऽसि, दुःखराशिं सहस्व भोः । दुःख सहन तायोगा, -द्विकाशोऽस्ति निजाऽऽत्मनः ॥५१॥ मृत्युकालस्य दुःखेन, कर्मनाशोऽस्ति ते द्रुतम् । अतस्त्वं मृत्युतो मा भी, मृत्योः पश्चात्सुखं महत् ॥ ५२ ॥ नाशो न मृत्युतस्तेऽस्ति, मृत्यु णिकपर्यवम् । विज्ञायैवं स्मराऽऽत्मानं, ततोमोक्षोऽस्ति ते द्रुतम् ॥ ५३ ॥ श्रात्मानमन्तरा सर्व, मन्यत्स्वप्नोपमं खलु । , संसारस्मरणाद्दुःख,—माऽऽत्मनः स्मरणात्सुखम् ॥ ५४ ॥ सर्वपुङ्गलभावेभ्यो, भिन्नोऽसि त्वं न ते तव । जडस्य ममतां त्यक्त्वा, स्मराऽऽत्मानं प्रतिक्षणम् ॥५५|| मत्तो भिन्नं जगत्सर्वं तत्र मे नास्ति किञ्चन । एकोऽस्मि ब्रह्मरूपोऽहं नाहं दृश्येषु वस्तुषु ॥ ५६ ॥ मदीयं कल्पितं यद्य, - तत्तन्मिथ्या मतं मया । मोहेन कल्पितं सर्व, स्वकीयं तत्यजाम्यहम् ॥ ५७ ॥ स्मरामि ब्रह्मरूपं मे, विस्मरामि च पुद्गलम् । व्युत्सृजामि जगन्मोहं, स्थिरो जातो निजाऽऽत्मनि । ५८ । भूत्वा स्वाऽऽत्मोपयोगी स्वं चिदाऽऽत्मानं प्रतिक्षणम् । स्मरामि निर्ममो भूत्वा, विस्मरामि जडं जगत् ॥ ५६ ॥ For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy