________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५८) आत्मशुद्धोपयोगेन, दुर्ध्यानं नश्यति क्षणात् । . आर्तरौद्रश्च दुनिं, मोहेन जायते खलु ॥ ४० ॥ अशुभकर्मणा दुःखं, सुखं च शुभकर्मणा । शुभाशुभोदये ज्ञानी, समत्वेन समाधिमान् ॥४१॥ पापोदयं च सत्पुण्ये, विना भोगं न नश्यति। तत्र त्वं साम्यभावेन, तिष्ठ साक्ष्युपयोगतः ॥ ४२ ॥ सुखे दुःखे समत्वं ते, समाधिर्मोहनाशकः । समाधि धारय त्वं भो, देहकर्मस्थितोऽपि सन् ॥४३॥ परीषहोपसर्गे स्वं, समाधि हृदि धारय । भागते मृत्युकाले त्वं, समाधि हृदि धारय ॥४४॥ समतैव समाधिर्हि, केवलज्ञानदायकः । समाधिसाधनेनैव, सर्वकर्म विनश्यति ॥४५॥ द्रव्यभावादिभेदेन, समाधयो ह्यनेकशः। समरूपः समाधि र्यः, स्वाऽऽत्मरूपप्रकाशकः ॥ ४६ ॥ आगते मृत्युदुःखे त्वं, मा मुहश्चेतन! प्रभो !। मृत्योः पश्चान्महाशर्म, प्राप्स्यसे स्वोपयोगतः॥४७॥ मृत्युजन्मादिपर्याया,-अनन्ताः कर्मयोगतः । चतुरंशीति लक्षेषु, योनिषु हि त्वया कृताः॥ ४८ ॥ अशुद्धाः पर्यवास्ते हि, तत्र स्वत्वं न ते प्रभो। जागर्तु ब्रह्मभावेन, शुधपर्यायवान्भवान् ॥ १६ ॥
For Private And Personal Use Only