________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८
( ५७ )
निर्विकल्पसमाधिस्तु, सविकल्पसमाधिभिः । साध्यते स्वोपयोगेन, साधुभिर्मोचकारकः ॥ ३० ॥ मृत्युश्च मोहदेहादेः, समाधिर्मरणं मतम् । मृत्युकाले च निर्मोहः, समाधिमृत्युकारकः ॥३१॥ स्वर्गं च सद्गतिं याति सविकल्पसमाधिमान् । याति मुक्तिं महाध्यानी, निर्विकल्पसमाधितः ॥३२॥ समाधिमृत्युलाभोऽस्ति, भक्तानां ज्ञानिनां ध्रुवम् । बिभ्यति मृत्युकाले न, निर्भया ज्ञानयोगिनः ॥ ३३ ॥ श्रात्मनः सत्यबोधेन, मृत्युभीति विनश्यति । मृत्युर्निजाऽऽत्मनो नास्ति, तनुनाशोऽस्ति वस्त्रवत् ॥३४॥ वनाशेन देहस्य, यथा नाशो न जायते । तथा देहविनाशेन, नाशो नास्ति निजाऽऽत्मनः ॥ ३५ ॥ यस्याऽस्ति जन्म तस्यास्ति, विनाशो नियमः खलु । नामरूपविनाशोऽस्ति, न नाशोऽस्ति निजाऽऽत्मनः | ३६ आत्मद्रव्यं सदा नित्य, - मनित्यं ज्ञानपर्यवैः । शाश्वतोऽजोह्यखण्डोऽस्ति, चानन्तोऽस्ति सनातनः ॥३७॥ श्रात्माऽहं सर्वविश्वाऽऽत्मा, खपरद्रव्यपर्यवैः । श्रस्ति नास्तिमयैः सर्वै, श्चिदानन्दमयोऽस्म्यहम् ॥३८॥ आरोग्यं प्राणदेहादेः, क्षणिकं विद्यते खलु । दर्शनज्ञानचारित्र्य -मारोग्यमाऽऽत्मनोऽस्ति तत् ॥ ३६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only