________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यग्दृष्टिगुणस्थान,-मारभ्य सविकल्पता। समाधि र्जायतेभक्त, सम्यग्दृष्टिमनीषिणाम् ॥२०॥ निर्विकल्पसमाधिस्तु, गुणस्थाने च सप्तमे । उपशमाद्यपेक्षातो, धर्मध्यानाद्विकल्पकाः ॥ २१ ॥ धर्मध्यानसमाधिस्तु, सविकल्पसुखप्रदा । शुक्लध्यानसमाधिस्तु, निर्विकल्पास्ति मुक्तिदा ॥२२॥ आलम्बनेन युक्ता या, भक्त्यादिचित्तवृत्तयः । प्रशस्यमोहयुक्तास्ताः, सविकल्पसमाधयः ॥ २३ ॥ सम्यग्दृष्टिगुणस्थान,-मारभ्य भव्यदेहिनाम् । सद्देवगुरुधर्माणां,-सेवाद्योयोग उच्यते ॥२४ ॥ सेवाभक्तिः क्रियायोगो, ज्ञानं निजाऽऽत्मसाधनम् । हेतुयोगा: प्रविज्ञेयाः, सविकल्पाः शिवप्रदाः ॥२५॥ साधनयोगतो भिन्नः, शुद्धाऽऽत्मा निर्विकल्पकः।। सर्वसाधनयोगेषु, समाधिः सविकल्पकः ॥ २६ ॥ सर्वसाधनयोगेभ्यो, निर्विकल्पः प्रसाध्यते । निर्विकल्पसमाधौ तु, पूर्णानन्दोऽनुभूयते ॥ २७ ॥ रोगादिदेहयुक्तोऽपि, ज्ञानी शुद्धोपयोगवान् । मुक्तो भवति निर्लेपो, निर्विकल्पसमाधितः ॥ २८ ॥ परीषहोपसर्गादि,-युक्तो ज्ञानी समाधिमान् । भवत्येव स्वभावेन, निर्विकल्पदशास्थितः ॥ २६ ॥
For Private And Personal Use Only