SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५५) सम एव समाधिर्हि, राजयोगो महान्स्मृतः । जीवाजीवपदार्थेषु, चाशुभं न शुभं मनः ॥ १० ॥ धर्मव्यापारकार्येषु,-धर्मिणां च स्थिरं मनः । परीषहोपसर्गो न, समाधिः स च गीयते ॥ ११ ॥ स्वान्येषां धर्मकार्येषु, योग्येषु यत्स्थिरं मनः । मोहवृत्तिनिरोधेन, समाधिर्योग उच्यते ॥ १२ ॥ जन्ममृत्यू च देहस्य, प्राणानां च विसर्जनम् । न च शुद्धाऽऽत्मनो जन्म, मृत्युश्च निश्चयेन वै ॥१३॥ दर्शनज्ञानचारित्र,-रूपाऽऽत्मा येन बुध्यते । तस्य शुद्धोपयोगोऽस्ति, समाधिः स च गीयते ॥१४॥ शुद्धाऽऽत्मनश्च यज्ज्ञानं, समाधिस्तत्स्मृतिः खलु । प्रतिक्षणं परब्रह्म,-स्वरूपस्य प्रचिन्तनम् ॥ १५॥ शुद्धाऽऽत्मनः स्मृति र्या च, चिन्तनं तस्य भावना । ध्यानं सा सविकल्पाऽस्ति, समाधिर्मोहवारिका ॥१६॥ यमादिसाधनै यस्य, स्याच्च ब्रह्मविचारणा। कामादीनां शमस्तस्य, सविकल्पसमाधयः ॥१७॥ रागरोषादिसंकल्पा,-विकल्पाश्च भवन्ति न । यस्य तस्य समाधिर्हि, यत्र तत्र यदा तदा ॥१८॥ सद्देवगुरुधर्मादेः, साधनाद्भक्तयोगिनाम् । प्रशस्तरागरोषादेः, सविकल्पसमाधिता ॥ १६ ॥ For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy