SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ५४ ) ॥ आत्मसमाधि ग्रन्थः ॥ -*©SK--- " Acharya Shri Kailassagarsuri Gyanmandir प्रणम्य श्रीमहावीरं, सर्वज्ञं विश्वशासकम् । परब्रह्म जगन्नाथं, विष्णुं रामं महाहरम् ॥ १॥ प्रणम्य सद्गुरुं भक्त्या, सम्यग्ज्ञानप्रदायिनम् । वक्ष्ये समाधिरूपं स - च्चिदानन्दप्रकाशकम् ॥ २ ॥ स्वपरशास्त्रगुर्वादे, -रनुभवादनेकधा । श्रसंख्याताश्च विज्ञेया, भेदा योगस्य मानवैः ॥ ३ ॥ योग एव समाधिर्हि, समाधिर्योग उच्यते । ध्यानभेदः समाधिश्च ततो भवति केवली ॥ ४ ॥ मंत्रयोगः क्रियायोगो, हठयोगश्च कथ्यते । लययोगश्च योगेषु, - राजयोगो महान्स्मृतः ॥ ५ ॥ शुद्धात्मनो हि यज्ज्ञानं, वैराग्यसमसंयुतम् । राजयोगः समाधिः सः, शुद्धोपयोग इष्यते ॥ ६ ॥ रागद्वेषादिसंकल्प - विकल्पवर्जितं मनः । " यदा भवेत्सदा चित्त, -समाधिर्जायते खलु ॥ ७॥ कषायोपशमो यस्य, तस्य योगः प्रगीयते । आत्मन्येव मनः स्थैर्य, समाधि र्गीयते बुधैः ॥ ८ ॥ रागद्वेषादियुक्तस्य - वित्तस्य यन्निरोधनम् । वृत्तिसंक्षय योगोऽस्ति, समाधिः स च गीयते ॥ ९ ॥ For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy