________________
Shri Mahavir Jain Aradhana Kendra
"
( ३३ )
"
शुद्ध पूर्णाऽऽत्मनि ध्यानं, समाधिर्न च विद्यते । एतादृशो निजाSSत्माऽहं केवलज्ञानभास्करः ॥ ६०॥ देहातीतो न देहस्य, - नाशेन शोचयाम्यहम् । सहिष्ये ऽनन्तदुःखं वै मृत्युकाले निजस्मृतेः ॥ ६१ ॥ स्मरामि शुद्धचैतन्यं, बाढंबाढं पुनः पुनः । अन्तर्मुहूर्त्तकालीन, - ब्रह्मस्मृतिर्हि मुक्तिदा ॥ ६२ ॥ देहोऽमरो न कस्यापि, मृत्युं यान्ति सुरेश्वराः । देहप्रियादिकं सर्वं जानामि नश्वरं जडम् ॥ ६.३ ॥ सर्वविश्वजडादिभ्यो, भिन्नोऽहं स्वोपयोगतः । प्रतिबद्धभावेन, निःसङ्गोऽहं सनातनः सद्रव्यक्षेत्रकालैश्च, स्वभावेन निजाऽऽत्मनि । स्वोपयोगी प्रभूतोऽहं नान्यद्रव्यं स्मराम्यहम् ॥६५॥ सने मरणे प्राते, स्वोपयोगोऽस्ति मुक्तिदः । त्यक्त्वा देहादिचिन्तां त्वं ब्रह्मरूपं विचारय ॥ ६६ ॥ एकएव निजाSSत्मा त्वं, संस्मर त्वं निजं स्मर । कुत्राऽपि प्रतिबद्धत्वं किञ्चिदपि न धारय ॥ ६७ ॥ सिद्धार्हत्साधुधमश्च शरणं कुरु मुक्तिदम् ।
11 28 11
"
www.kobatirth.org
"
Acharya Shri Kailassagarsuri Gyanmandir
"
पश्चात्तापं कुरु स्मृत्या, पापानां सत्यभावतः ॥ ९८ ॥
शुभाशुभविचाराणां निरोधेन निजाऽऽत्मनि । साम्यत्राटकभावेन. लीनो वेद्मि हृदि प्रभुम् ॥ ६६ ॥
For Private And Personal Use Only