SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४९) यमादितः प्रभिन्नाऽऽत्मा, यमादिकं हि साधनम् । साधनेषु न मुह्यामि, साधयिष्ये स्वसिद्धताम् ॥४८०॥ विश्वं पश्यामि नेत्राभ्यां, तत्र मुह्यामि नैव च । देहभोगोपभोगेषु, मुह्यामि नैव मोहतः ॥ ४८१ ॥ करोमि योग्यकर्माणि, स्वाधिकारेण शक्तितः। अनन्तशक्तिधामाऽहं, चमत्कारोदधिः स्वयम् ॥ ४८२॥ कर्ताकर्म स्वयं स्वाऽऽत्मा, करणं स्वाऽऽस्मशक्तयः। सम्प्रदानमपादानं, निजाऽऽत्मैव स्वभावत: ॥४८३॥ आधारोऽस्ति निजाऽऽत्मैव, पर्यायाणां स्वभावतः । षट्कारकस्वरूपोऽस्मि, बाह्येन ह्याऽऽन्तरेण च॥४८४॥ निजाऽऽत्मैव यथा तद्वत्, सर्वाऽऽत्मानो विजानत । बाह्यषट्कारकाद्भिन्नो, विशुद्धाऽऽत्मेति जानत ॥४८५॥ पान्तरं कारकं षटकं, विशुद्धमाऽऽत्मरूपकम् । अस्तिनास्तिमयं सर्व, जगदाऽऽत्ममयं सदा ॥४८६॥ परद्रव्यस्य पर्याया, नास्तिरूपेण ते निजे । प्रात्मनो निजपर्याया, अस्तिरूपेण चाऽऽत्मनि ॥४८७॥ ज्ञेयपर्यायरूपेण, ह्यस्तिनास्तिमयं जगत् । आत्मन एव पर्यायो, भिन्नाभिन्नोह्यपेक्षया ॥४८८ ॥ अतो विश्वस्वरूपाऽऽत्मा, स्वपरद्रव्यपर्यवैः । अस्मिनाऽस्मि ह्यपेक्षातो, जानामि स्वं गुणालयम्।४८९। For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy