________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५०) दुष्टाचारात्प्रभिन्नोऽस्मि, भिन्नोऽस्मि सर्वदोषतः दुष्टाचारांश्च दोषांश्च, दूरीकरोमि भावतः ॥ ४६० ॥ सर्वव्यसनभिन्नोऽहं, सुखं न व्यसनान्नृणाम् । सर्वव्यसनमुक्ताना,-माऽऽत्मशक्तिः प्रकाशते ॥४६१॥ दुःखं व्यसनदोषेण, व्यसनासक्तदेहिनाम् । व्यसनत्यागतः शान्तिः, सुखस्वाधीनतो खलु ॥४६२॥ दुर्गुणेभ्यो विमुक्तानां, व्यसनमुक्तदेहिनाम् । दुष्टाचारविमुक्ताना,-माऽऽत्मप्रभुः प्रकाशते ॥ ४६३ ॥ साध्येतु साध्यबोधाऽऽत्मा, हेतुषु हेतुबुद्धिमान् । निर्मोही समभावी यो, मुक्तात्मा स क्षणाद्भवेत् ॥४६४॥ अहंवृत्तिर्न यस्यास्ति, स्वसाध्ये साधनेषु च । प्रक्रियोवा क्रियावान्स, निबन्धो मुक्तात्मराट् ॥४६५॥ अहंवृत्तिर्हि यस्यास्ति, स्वसाध्यं साधनेषु च । प्रक्रियो वा क्रियावान्स, बद्धो भवति मानवः ॥४६६॥ नाहं व्रती यमी साधु, न तपस्वी न संयमी । सर्वेभ्यः शुद्धरूपं मे, भिन्नं जानामि तत्त्वतः ॥४६७॥ आत्मशुद्धोपयोगेन, नाहंभावो जगत्रये । साक्षिभावेन पश्यामि, सर्वविश्वं चराचरम् ॥ ४६८॥ हानिर्लाभो न मे किञ्चिद्, विश्वतः समभाविनः । हानिर्लाभः सुखंदुःखं, बाह्येन तत्तु कल्पितम् ॥४६६॥
For Private And Personal Use Only