SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ४८ ) मत्तः प्रकाशते विश्वं विश्वतो न प्रकाश्यहम् | जडेषु मत्समः कोऽपि नास्ति स्वान्यप्रकाशकः ॥४७०॥ जडद्रव्येषु वेत्तृत्वं नास्ति सत्यं वदाम्यहम् | प्रत्यक्षोऽहं जगद्वेता, देहस्थः सत्यनिश्चयः ॥४७१॥ प्रमाणमत्र मज्ज्ञानं, प्रत्यक्षं व्यावहारिकम् । अनन्तज्ञान पूर्णोऽहं सत्तया कथ्यते मया ॥ ४७२ ॥ अनन्तधर्म पूर्णोsहं, भविष्यामि हि शक्तितः । कर्मावरणनाशेन भाविनि भगवानहम् " Acharya Shri Kailassagarsuri Gyanmandir ॥ ४७३ ॥ सुखं नास्ति बहिष्कञ्चि, - त्सुखं पूर्णं निजात्मनि । इत्येवं निश्चयं कृत्वा, ज्ञानध्यानं करोम्यहम् ||४७४ || बाह्यपदार्थलाभेन, किञ्चिद्वृद्धिर्न मे खलु । बाह्यान्या न हानिमें, मयैवं निश्चयः कृतः ॥४७५ || लोकानां स्तुतिनिन्दातो, लाभो हानिर्न मे खलु । लोकैषणादिसंज्ञातो, भिन्नात्मा निश्चयः कृतः ॥४७६ ॥ लोकैषणादिसंज्ञातो, मुह्यामि न स्वबोधतः । इत्येवं वर्तनादाऽऽत्मा, पूर्णानन्दोऽनुभूयते ||४७७॥ लोकसंज्ञा जिता येन, नामरूपादिवासना । मुक्तिस्तेन कृता हस्ते, जितं सर्वं च तेन हि ॥४७८|| लोकैषणादिभिर्मुक्तो, मुक्त एव न संशयः । सर्वकर्माणि कर्तुं स, योग्यो भवति मानवः ॥४७६ ॥ For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy