________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४७ )
"
आत्मानन्दस्य विश्वासा, - दुत्साहोऽनन्तजीवनम् । प्रादुर्भवति सज्ज्ञानं, चाञ्चल्यं न प्रवर्तते ॥ ४६०॥ स्वामित्वं यच्च दासत्वं, जडारोपेण कल्पितम् । तन्तु मिथ्याऽस्ति दासत्वं, स्वामित्वं न स्वभावतः ॥ ४६१ ॥ anissent निर्भयो नित्यो, निर्मलानन्दधारकः । अक्षयो निश्चलः पूर्ण, श्राधिव्याधिविवर्जितः ॥४६२|| श्ररूपं ते स्वरूपं हि दर्शनज्ञानवान्प्रभुः । अनन्तशक्तिसम्पन्नः, सत्तातस्त्वमजोऽव्ययः || ४६३ ॥ अनन्तगुणपर्यायाss, - धारोऽसि त्वं महामहः । अनन्तजीवनाssस्मा त्वं स्वस्वरूपी भव स्वयम् ॥४६४ ॥ शुद्धध्येयं हृदि स्मृत्वा स्वकर्तव्यं कुरुष्व भोः । जागृहि ब्रह्मभावेन, शुद्धात्मा त्वं भविष्यसि ॥४६५॥ दैन्यं मा कुरु मोहेन, विश्वदेवोऽसि चेतन ! | जडभिक्षां च याचन्ते, ते दीनाश्चक्रिणोऽपि हि ॥४६६ ॥ नाहं दीनो न दाताऽस्मि, नाहं कामो न कामवान् । नाहं पुंवेदरूपोऽस्मि, नाहं निद्रा न निद्रकः ॥४६७॥ सच्चिदानन्दरूपोऽस्मि, नाहं कर्म न कर्मवान् । नाहं जडो जडाद्भिन्न, - श्वादृश्योऽलक्ष्यरूपवान् ॥४६८॥ शुद्ध ध्येयस्वरूपोऽस्मि, चैकोऽनेको न नाश्यहम् । ज्ञातृज्ञेयस्वरूपोऽहं, स्त्रपरस्य प्रकाशवान् ॥ ४६९ ॥
For Private And Personal Use Only