SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " ( ४१ ) विश्वस्थ सर्व जीवानां वैचित्र्यं दृश्यते च यत् । तत्तु मनः प्रभेदेन, तथा कर्मप्रभावतः ॥। ४०० ॥ तो विचारकार्याभ्यां धर्मैक्यं विश्वदेहिनाम् । न भूतमद्यपर्यन्तं भाविनि न भविष्यति ॥ ४०१ ॥ मनोभेदेषु लोकेषु, ज्ञानी समत्वधारकः । श्रात्मज्ञानोपदेशञ्च ददाति विश्वदेहिनः ॥ ४०२ ॥ Acharya Shri Kailassagarsuri Gyanmandir मनोविचारभेदैश्च, धर्माचारेषु भेदता । ।। ४०५ ।। राज्यादिकप्रवृत्तीनां सर्वत्र भेदता भुवि ॥ ४०३ ॥ अनादिकालतो भेदो, -ऽभूच्च भाविनि वर्त्स्यति । युद्ध्यन्ति मोहिनस्तेन, शस्त्रास्त्रमंत्रतः सदा ॥४०४॥ मनःकर्मादिभेदस्तु वर्तते सर्वदेहिनाम् । विचाराचारभेदेन, योद्धव्यं न कदाचन श्रात्मज्ञानस्य लाभेन, मनोलयो भवेद्यदा । तदा निजाSSत्मना सार्धं, विश्वैक्यं सर्वथा भवेत् ॥ ४०६ | विचाराचारभेदेन, यत्सख्यं तन्मनः कृतम् । तत्सख्यं क्षणिकं ज्ञेयं, मनोभेदान्न शाश्वतम् ॥ ४०७॥ विचाराचारतो भिन्नं, यत्सख्यमाऽऽत्मनः खलु । शाश्वतं निर्विकल्पं च अनन्तसुखदायकम् ॥ ४०८ ॥ सर्वथा सर्वदा नृणां विचाराचारतुल्यता । तया मैत्री न भूता हि भाविनि न भविष्यति ॥ ४०६ ॥ ६ For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy