________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४० ) श्रात्मनो नवधाभक्तिं, विना किञ्चिन्न रोचते । यस्य तस्य हि भक्तस्य, हृदि व्यक्तः प्रभुर्भवेत्॥३६०॥ ब्रह्मणो भावनादृष्टिः, सर्वत्र व्यापिका यदा । तदाऽऽत्मनः समष्टित्वं, जायते ज्ञानशक्तितः ॥३६१॥ विराप्रभुनिजाऽऽत्मैव, केवलज्ञानशक्तितः। व्यष्टिसमष्टिरूपोऽस्ति, शक्तिव्यक्तिस्वरूपतः ॥३९२॥ अध्यात्मशान्तिवाञ्छा चे,-कुरु ब्रह्मप्रचिन्तनम् । देहाध्यासविनिर्मुक्त्या-ब्रह्मशान्तिः प्रकाशते ॥३९३॥ सर्वजातीयसंकल्प,-विकल्पस्य निरोधतः । श्रात्मशान्तिर्भवेत्पूर्णा, नान्यथा कोटियत्नतः ॥३६४॥ अहंवृत्त्या मृतोभक्तो, ब्रह्मरूपेण जीवति । जीवन्सन्नपि स ज्ञेयो, मृतो मोहेन जीवकः ॥३६५॥ प्रात्मानन्दरसी ज्ञानी, मोक्षार्थं देहधारकः । प्रवृत्तौ वा निवृत्तौ वा, समभावेन वर्तकः ॥ ३६.६ ॥ जीवे जीवे मतिर्भिन्ना, रुचिभिन्ना स्वकर्मतः। मुहर्मुहुः प्रजायन्ते, नवीनाः बुद्धिपर्यवाः ॥३६७॥ विचारा न स्थिराः सन्ति, विश्वस्थसर्वदेहिनाम् । उत्पादश्च विनाशो हि, विचाराणां भवेत्सदा ॥३८॥ यावन्मनो भवेत्ताव,-द्विचाराचारभेदता । विश्वस्थसर्वलोकानां,-दर्शनधर्मकर्मसु ॥३६६ ॥
For Private And Personal Use Only