________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३९ )
।
"
पश्य निजाssत्मसौन्दर्य, देवानामपि दुर्लभम् । आत्मसौन्दर्यलाभेन, सन्तोषो जायते हृदि ॥ ३८० ॥ नार्यादिदेहरूपादि, सौन्दर्य तत्तु कल्पितम् । चणिकं च हृदि ज्ञात्वा तत्र ज्ञानी न मुह्यति ॥ ३८१ ॥ बाह्य सौन्दर्यमोहस्तु ब्रह्मसौन्दर्यदर्शनात् । नश्यत्येव रवेर्भास - स्तमोनाशो यथा तथा ॥ ३८२ ॥ आत्म सौन्दर्यलाभेन, रूपादिमोहवृत्तयः । नश्यन्ति ब्रह्मसौन्दर्य, भासते विश्वदेहिनाम् ॥ ३८३ ॥ सर्वत्र ब्रह्मसौन्दर्य, दृश्यते हि यदा तदा । जडसौन्दर्य मोहस्य, - नाशो भवति तत्क्षणात् ॥ ३८४॥ श्रात्मानमन्तरान्यत्र, सौन्दर्यं नैव विद्यते ।
अतः शुद्धाऽऽत्म सौन्दर्य, पश्याऽऽत्मना हि चेतन ! ॥३८५॥ यावन्न ब्रह्मसौन्दर्य, दृश्यते हि निजाऽऽत्मना । तावज्जडस्य सौन्दर्यान्, मोहो भवति देहिनाम् ॥ ३८६ ॥ श्रात्म सौन्दर्यरूपेण, दर्शनं सर्वदेहिनाम् । जायते हि तदा ब्रह्म, - सुखास्वादः प्रजायते ॥३८७॥ विश्वजीवैः समं सत्या, निष्काममित्रभावना । येषां जाता सदा तेषा, माऽऽत्मजीवनता भवेत् ॥ ३८८ ॥ श्रात्मैक्यं जगता सार्धं कृतं येन निजाऽऽत्मना । विश्वतस्तस्य नाशो न, विश्वनाशोऽस्ति नो ततः॥३८६॥
For Private And Personal Use Only