________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३८ )
।
आत्मैव सर्वसारोऽस्ति, मिथ्यास्ति जडजीवनम् । देहजीवनतो भिन्न, - माऽऽत्मनो जीवनं तव ॥ ३७० ॥ ब्रह्मणो जीवनं स्मृत्वा, विस्मृत्य मोहजीवनम् । देहजीवनतो जीव !!, ब्रह्मजीवनलाभतः ॥ ३७१ ॥ म्रियस्व मोहभावात्त्वं, जीवाऽऽत्मजीवनेन हि । त्वमेवास्ति स्वयं ब्रह्म, किमन्यत्र प्रधावसि ||३७२ || श्रात्मदृष्ट्या भवेदाssत्मा, परमात्मा स्वयं प्रभुः । भीतं कर्तुं समर्थो न त्वामन्यो निर्भयोऽसि हि ॥ ३७३॥ आत्मप्रभुं विना नान्या, मिथ्येच्छा तेऽस्ति चेद्धृदि । समभावोऽस्ति चेत्तर्हि, नेच्छाया हि प्रयोजनम् ॥३७४॥ त्यागश्च ग्रहणं सर्व, मिच्छया न भवेत्तदा । त्यागग्रहणकर्ताऽपि स्वयमाऽऽत्मा भवेज्जिनः ॥ ३७५ ॥ त्यागश्च ग्रहणं सर्व, प्रारब्धस्य प्रयोगतः । भवेत्तदा स्वयं ब्रह्म, - रूपेण भगवान् खलु ॥ ३७६ ॥ प्रारब्धकर्मतो देह, - जीवनस्य प्रसाधना । भवेत्तथापि निर्बन्ध, आत्मा साक्ष्युपयोगतः ॥३७७॥ यत्र तर्का न गच्छन्ति, यत्र नैव मनोगतिः । रागद्वेषलयो यत्र तत्राऽत्मा जायते प्रभुः ॥ ३७८ ॥ शुद्धप्रेमप्रवाहेण, द्वेषादिदोषसंक्षयः ।
"
द्वेषादिदोषनाशाद्धि, स्वाऽऽत्मा भवति केवली ॥ ३७९॥
For Private And Personal Use Only