________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३७ )
सर्वभाषाषु नामानि प्रभो बहूनि सन्ति हि । तन्नामभि: प्रवाच्योऽह, माऽऽत्मा ज्ञानसुखोदधिः । ३६० | आत्मन्येव चिदाऽऽनन्दो, नान्यत्र निश्चयोऽस्ति मे I निश्चित्यैवं हृदिध्येय, श्रात्मारामः प्रभुर्महान् ॥ ३६९ ॥ निजाऽऽत्मनः सुखाखादी, सर्वत्राऽपि परिभ्रमन् । भवेन्न पुगलानन्दी, सर्वविश्वस्य संग्यपि ॥३६२ ॥ श्वश्रादिदुःखभीत्या न, स्वर्गसुखेच्छया च न । भक्ता भक्तिं प्रकुर्वन्ति, कुर्वन्ति स्वाऽऽत्मशुद्धये । ३६३ | भक्तानां भक्तिरेवास्ति शुद्धब्रह्मणि मग्नता । श्रात्मनश्चित्तबुद्ध्यादे, - रर्पणं च निजाऽऽत्मनि ॥ ३६४॥ प्रभोः सर्वमिदं मत्वा, देहबुद्धिधनादिकम् । आत्मनैवार्पणं कृत्वा, विश्वसेवां समाचर ॥ ३६५ ॥ विश्वस्थ सर्वजीवानां, - सेवैव प्रभुसेवना । श्रात्मसेवैव विश्वस्य - सेवा ज्ञानादिभिः शुभा ॥ ३६६॥ आत्मप्रभुं विना किञ्चि, - न्नान्यमिच्छेच्छुभाशुभम् । पराभक्त्या प्रभुं पश्यन्, भक्त: साक्षात्प्रभुर्भवेत् ॥ ३६७॥ सम्प्राप्य मानुषं जन्म, मां प्रमादं कुरुष्व भोः । एकक्षणे प्रभु प्राप्यः, क्षणमेकं तु दुर्लभम् ॥३६८॥ एकक्षणमपि व्यर्थ, हारय मा प्रमादतः । नुभवस्य क्षणं भव्य !, देवानामपि दुर्लभम् ॥ ३६६ ॥
For Private And Personal Use Only