________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४२)
अात्मस्वरूपभावेन, सख्यं येषां प्रजायते । मनोऽतीतं च तन्नित्यं, पूर्णानन्दप्रकाशकम् ॥४१०॥ सर्वविश्वजनैः सार्धं, मनोमैत्री न शाश्वती । शुद्धाऽऽत्मप्रेमतो मैत्री, सर्वैः सार्धं सुखप्रदा ॥११॥ शुद्धाऽऽत्मप्रेममेलेन, निष्कामा विश्वमित्रता । मनोभेदेन भेदो न, तत्राऽऽत्मरसवेदनम् ॥ ४१२ ॥ मनःप्रभिन्नजीवानां,-विचारेषु च कर्मसु । रागद्वेषौ न कुर्वन्ति, समत्वेन विचक्षणाः ॥ ४१३ ॥ सापेक्षदृष्टितस्तत्र, सत्यं पश्यन्ति कोविदाः । सत्यं गृह्णन्ति मिथ्यात्वं, त्यजन्ति च विवेकतः ॥४१४॥ अतस्ते ब्रह्मसंसक्ता, भवन्ति ब्रह्मरागतः । विस्मृत्य सर्वसंसारं, भवोदधिं तरन्ति ते ॥४१५॥ इत्येवं हृदि विज्ञाय, मनोलयं कुरुष्व भोः। यावन्मनो भवेत्ताव,-संसार एव कथ्यते ॥ ४१६ ॥ वारय ज्ञानशक्त्या भो, यत्र तत्र भ्रमन्मनः । अन्तर्मुखं मनःकृत्वा, ब्रह्मरूपं विचिन्तय ॥ ४१७॥ प्रात्मशुद्धोपयोगेन, मनोजयो भवेत्खलु । जायते केवलज्ञानं, लोकालोकप्रकाशकम् ॥४१८॥ ध्यानसमाधितः पश्चा,-दाऽऽत्मा भवति केवली । अघातिकर्मतः पश्चा,-सिद्धाऽऽत्मा जायते विभुः॥४१६॥
For Private And Personal Use Only