________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३३) शुभाशुभपदार्थेषु, शुभाशुभं न भासते, तदाऽऽत्मनोभवेन्मुक्ति स्तत्र किश्चिन्नसंशयः ॥३२०॥ बध्नन्ति न निजाऽऽत्मानं, विषया मोहमन्तरा। आत्मशुद्धोपयोगेन, मोहो नश्यति दुःखदः ॥३२१॥ व्यक्तशुद्धोपयोगेन, वर्तितव्यं क्षणे क्षणे। व्यक्तशुद्धोपयोगेन, वर्तस्व चेतन ! स्वयम्॥ ३२२ ॥ क्षणमपि प्रमादं मा, कुरुष्व भव्यचेतन!। कामरूपमहाशत्रो,-विश्वासं मा कुरु क्षणात्॥३२३ ।। भोगे रोगभयं दुःखं, पामाघर्षणशर्मवत् । सुखं स्वप्नोपमं किञ्चित्, ततः पश्चादशान्तयः॥३२४॥ मा मुहः कामभोगेषु, सुखभ्रान्तिविमोहतः। कामभोगा न जानन्ति, जडत्वाच्छर्म कीदृशम् ॥३२५॥ कामभोगा न जानन्ति, भोक्तारं भोक्तरागिताम् । जडेषु कामभोगेषु, त्वत्प्रीतिर्घटते नहि ॥ ३२६ ॥ कामिनीस्पर्शरूपेषु, मा मुहः सुखबुद्धितः। कामिनीभोगतः शर्म, भूतं न च भविष्यति ॥३२७॥ हालाहलविषं कामः, शल्यं कामो महारिपुः । कामाधीनो महादासः, परतन्त्रोऽस्ति बन्दिवत्॥३२८॥ कामस्वार्थेण या प्रीतिः, सा प्रीतिर्दुःखदायिनी। भोगेषु शर्मविश्वासः, सोयमो दुःखकारकः ॥ ३२६ ।।
For Private And Personal Use Only