________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३४) कारागृहं हि विज्ञेयं, कामिनीकाञ्चनं सदा । कारागृहं जगत्सर्वं, बहिराऽऽत्मधियां ध्रुवम् ॥ ३३० ॥ पाशवत्कामभोगेषु,-लिप्तानां दुःखराशयः । विज्ञाय कामभोगेषु, स्निह्यन्ति नैव साधवः॥ ३३१ ॥ कामसम्बन्धजन्यं यत्,-प्रेम कारागृहं तु तत् । कामरागसमं नास्ति, बन्धनं हि जगत्रये ॥ ३३२॥ भवमूलं तु कामोऽस्ति, ज्ञानात्काभो विनश्यति । आत्मज्ञानं विनाकाम,-बन्धनं न विनश्यति ॥३३३॥ रागो द्वेषस्तथा कामो, येषां हृत्सु न जायते। तेषां हि सर्वसंसारो, बन्धाय न प्रजायते ॥ ३३४ ॥ विश्वस्य सर्वजीवा हि, सन्ति कामस्य सेवकाः । अकामस्य न दासत्वं, निष्कामस्य सुखं सदा ॥३३५॥ सुखबुद्धि न भोगेषु, येषामाऽऽत्मसुखैषिणाम् । तेषां हि पारतन्त्र्यं न, प्रतिबन्धो न कुत्रचित्॥३३६॥ प्रतिबन्धोऽस्ति कामेन, परायत्तं मनो भवेत् । कुत्रापि प्रतिबन्धत्वं, नास्ति निष्कामदेहिनाम् ॥३३७॥ कामिनीस्पर्शरूपेषु, रसेषु यो न मुह्यति । स्वतन्त्रो निर्भयः सैव, कामिन्यादिप्रसंगतः॥३३८ ।। कामिनीसङ्गमोहस्तु, ब्रह्मसुखेन नश्यति । अत अात्मसुखप्राप्त्य, ज्ञानिसङ्गं कुरुष्व भोः॥३३६ ॥
For Private And Personal Use Only