SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३२ ) ॥ ३१२ ॥ चतस्रो भावना भाव्याः सर्वकर्मविनाशिकाः । द्वादश भावना भाव्या, मोहादिविषनाशिकाः ॥ ३९० ॥ ॥३१०॥ धर्मध्यानं हृदि ध्येयं, धर्मध्यानस्य भावना । यत्र तत्र सदा भाव्या, दिने रात्रौ यदा तदा ॥३१९॥ सर्वथा सर्वदा ब्रह्मदृष्ट्या विश्वं निभालय | सर्वत्र ब्रह्मदृष्टिं त्वं धारयस्व स्वमुक्तये एकमेव निजाऽऽत्मानं, चिन्तय स्वोपयोगतः । अन्यं सर्वं च विस्मृत्य, मग्नो भव निजाऽऽत्मनि ॥३१३ ॥ बाह्यसुखपदार्थेषु, सुखं दुखं च नास्तिं भोः । दुःखदातृत्वशक्तित्वं, जडेषु नास्ति जानत ॥ ३१४॥ दुःखमाssत्मस्वभावो न, सुखमाऽऽत्मस्वभावतः । दुःखं वैभाविकं चास्ति, सुखं स्वाभाविकं निजे ॥३१५॥ दुःखं भवति मोहेन, सुखं निर्मोहभावतः । श्रात्मोपयोगतः कर्म, - जित्वा सुखी भव स्वयम् ॥३१६ ॥ प्रमादं मा कुरु स्वात्मन् !! जागृहि त्वं प्रतिक्षणम् । शुद्धोपयोगवीर्येण, कर्मनाशोऽस्ति निश्चयः ॥ ३१७ ॥ सर्वाचारविचारेषु, साक्षी समो यदा भवेत् । कृत्स्नकर्मक्षयो मोक्षः प्रत्यक्षमनुभूयते मोक्षानन्दस्तु चात्रैव, प्रत्यक्षमनुभूयते । मया ध्यानोपयोगेन, क्षयोपशमभावतः ॥ ३९८ ॥ ॥ ३९९ ॥ For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy