SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३१ ) रागद्वेषविकल्पानां,-नाशो यत्र प्रजायते । चिदानन्दप्रकाशत्वं, स्वानुभवः प्रकथ्यते ॥ ३००॥ परोतेऽपि चिदानन्दे, विद्यते स्वाऽऽत्मना स्वयम् । चित्तेन्द्रियस्य साहाय्यं,-विनाऽऽत्मानुभवो महान् ३०१ स्वानुभवप्रकाशोऽस्ति, ब्रह्मणि लीनयोगिनाम् । क्षयोपशमभावेन, स्वानुभवा असंख्यकाः ॥ ३०२ ॥ असंख्यानुभवानां च, वैचित्र्यं विविधं मतम् । क्षयोपशमभावीय,-तारतम्येन देहिनाम् ॥ ३०३ ॥ आत्मानुभवयोगेऽपि, ब्रह्मानुयायिदेहिनाम् । स्वानुभवः समानो न, समानश्चाऽऽत्मनिश्चये ॥३०४॥ आत्मानुभवलाभेन, जीवन्मुक्तो जनो भवेत् । शब्दसमधिरूढस्य, दृष्टितो गीयते मया ॥३०५ ॥ स्वानुभवः प्रकर्तव्यः कोटिकोटिप्रयत्नतः स्वानुभवप्रभोः प्राप्त्या, स्थिरप्रज्ञा प्रजायते ॥३०६ ॥ स्थिरप्रज्ञावतां शान्ति, निभर्यत्वं प्रकाशते । रागद्वेषं विना तेषां, बन्धनं नास्ति विश्वतः॥३०७॥ अप्रमत्तसतां ज्ञानध्यानसमाधियोगतः ॥ स्वानुभवः स्थिरप्रज्ञा-ब्रह्मानन्दश्च जायते ॥ ३०८॥ सम्यग्दृष्टिमनुष्याणां, स्वानुभव: प्रकाशते । तदुत्तरे गुणस्थाने, विशेषतारतम्यता ॥३०६ ॥ For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy