________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३०) प्राधिज व्याधिजं दुःखमुपाधिजं भृशं जनैः । भुज्यते तत्प्रविज्ञाय, यतस्त्र ब्रह्मशर्मणे ॥ २६० ॥ अात्मानन्दाय देहायं,-संयमयोगसाधनम् ।, दर्शनज्ञानचारित्रमोक्षमार्गोऽस्ति साधनम् ॥ २६१ ॥ श्रात्मानंदाय देहादि,-जीवनं तत्प्ररक्षणम् । देहादिकं समालम्ब्य, स्वाऽऽत्मा संजायतेप्रभुः ॥२२॥ बाह्यसातप्रभोक्ताऽस्ति, ब्रह्मानन्दप्रभोज्यपि । तीव्रनिकाचितव्यक्तप्रारब्धपुण्ययोगतः ॥ २६३ ॥ एकवारमपिप्राप्त प्रात्मानन्दरसः खलु । तेन बाह्यसुखप्राप्त्य, प्रयत्नो न विधीयते ॥ २६४ ॥ श्रात्मानन्दरसप्राप्त्या, जडानन्दो न रोचते । तथापि कर्मतो भोगी, ह्यभोगी ब्रह्मणि स्थितः ॥२६५॥ आत्मानन्दरसस्वादा, जडानन्दो निवर्तते । इच्छति न ततः पश्चा,-दाऽऽत्मा जडसुखं खलु ॥२६६॥ बाह्यराज्यादिकार उद्विग्ना जडशर्मणि । श्रात्मानन्दप्रकाशाय, भवन्ति त्यागिनो जना ॥२९॥ श्रात्मानन्दप्रकाशार्थ मिच्छाऽस्ति सर्वयोगिनाम् । अात्मानन्दरसास्वादं, विना स्थैर्य न यान्ति ते ॥२६८॥ श्रात्मानुभवयोगेन, ब्रह्मानन्दः प्रकाशते। आनन्दानुभवी सैव, निर्विकल्पसमाधिमान् ॥२६॥
For Private And Personal Use Only