________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २९) स्पर्शेन्द्रियादिभोगेभ्यो, जन्यं परवशं सुखम् । वस्तुतो दुःखमेवास्ति, तत्रज्ञानी न मुह्यति ॥२८०॥ जडभोगसुखेच्छात,-स्तत्प्रवृत्तिः प्रजायते । ततः क्रोधादयो दोषाःभवन्ति दुःखदायिनः॥२८॥ कामदेहादिभोगानामिच्छा च परतन्त्रता । ततो मोहेन हिंसाद्य,-पापादःखं प्रवर्तते ॥ २८२ ॥ जडानन्दाय विश्वस्थलोकानां हि प्रवर्तनम् । स्वल्पं किञ्चित्सुखं तेषां, भृशं दुःखपरम्परा ॥२८३॥ प्रत्यक्षं तत्प्रविज्ञाय, तथापि सुखकांक्षिणः । जडभोगेषु मुह्यन्ति, विरमन्ति न मोहतः ॥ २८४ ॥ बाह्यतः सुखमन्तारः पराधीनाश्च चक्रिणः । स्वस्मिन् सुखं न जानन्ति, रुदन्ति जडमोहतः॥२८५॥ आत्मन्येव सुखं सत्यं, बाह्येषु न सुखं क्वचित् । ज्ञात्वा ज्ञानी स्वतन्त्रं स्वं,सुखं याति निजाऽऽत्मनः॥२८६॥ जडानन्दाय मन्यन्ते, राज्यं स्त्रियं धनादिकम् । क्रोधं मानं च मायां च, लोभं तदर्थसेविनः ॥२८७॥ मनोवाकाययोगानां,-प्रवृत्तिर्जडशर्मणे । क्रियमाणा भृशं दुःखं, याति च स्वप्नवत्सुखम् ॥२८८॥ मधुबिन्दोरिव स्पष्टं, सुखं सांसारिकं जनैः । भुज्यते च ततः पश्चान्महादुःखपरम्परा ॥२८६ ॥
For Private And Personal Use Only