SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २८ ) ॥२७१ ॥ क्षायिकं यत्सुखं तत्तु, पूर्णानन्दः प्रकथ्यते । जीवन्मुक्तः सुखं नित्यं, भुनक्ति ब्रह्मजीवकः ॥ २७० ॥ देहातीतस्य सिद्धस्य - पूर्णानन्दः सदास्ति वै । सुखाय सर्वजीवानां - ब्रह्मज्ञानं प्रजायते मुद्यन्ते ये जडानन्दे, मूढा हिंसादिभावतः । अतिदुःखं समायान्ति, भ्रान्त्वा भवे ह्यनेकशः ॥ २७२॥ परतन्त्रो जडानन्दः सर्वदुःखप्रदायकः । मोहिनस्तत्र मुह्यन्ति, लभन्ते न निजं सुखम् ॥ २७३॥ श्रात्मानन्दः स्वतन्त्रोऽस्ति, सर्वोपाधिविवर्जितः । श्रात्मवशं सुखं सत्यमाऽऽत्मनो दुःखनाशकम् ॥ २७४ ॥ परवशं सुखं नास्ति, किन्तु दुःखं भृशं सदा । राज्यभोगादिजन्यं यत्पराधीनं सुखं च तत् ॥ २७५ ॥ श्रात्मानन्दाय भोगानां, - नास्ति किञ्चित्प्रयोजनम् । भोगाय पारतन्त्र्यं तु कुर्वन्ति ते हि मोहिनः ।। २७६|| जडानन्दाय राज्यादि, - कार्येषु ये परायणाः रागद्वेषौ च कुर्वाणाः सुखं यान्ति न मानवाः ॥२७७॥ परस्परं प्रयुद्धयन्ति, राज्यदेशादिमोहतः । मोहाधीनाश्च ते भूत्वा यान्ति दुःखपरम्पराम् ॥२७८॥ लक्ष्मीस्त्रीभूमिराज्यानां - मोहेन मूढमानवाः । कुर्वन्ति जनताघातं, ततो यान्ति हि दुर्गतिम् ॥ २७६ ॥ For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy