________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २३ )
पक्काऽऽत्मज्ञानिसंगं भो, कुरुष्व पूर्णरागतः । पक्काऽऽत्म ज्ञानिलोकाना - मुन्मत्तस्येव वर्तनम् ॥ २२०॥ परस्परविरुद्धा या, असंख्या धर्मदृष्टयः । श्रविरुद्धा भवन्त्येव, सम्प्राप्याध्याऽऽत्मवेदिनम् । एतादृग्ज्ञानिसंगेन, व्यक्तात्मा जायते प्रभुः । कोटिकार्यं परित्यज्य, ज्ञानिसंगं कुरुष्व भोः ॥२२२॥ ज्ञानिनां भक्तिसेवात, आत्मशुद्धिः प्रकाशते । श्रात्मशुद्धया भवेज्ज्ञानं, ततो मोक्षसुखोदधिः ॥ २२३॥ रागद्वेषादि संकल्प - विकल्पवर्जितं मनः ।
"
यदा भवेत्तदाब्रह्म, -समाधिर्धर्मदेहिनाम् ॥ २२४ ॥ श्रात्मसमाधिलाभेन, पूर्णानन्दोऽनुभूयते । आत्मना ब्रह्मलीनत्वा, त्सर्वकर्मक्षयस्ततः ॥ २२५॥ आत्मरसं समासाद्य, पौगलिकसुखभ्रमः । नश्यति तत्क्षणं वेगात् सर्वत्रानुभवः सताम् ॥२२६॥ आत्मनो निश्चयात् सिद्धिं प्राप्नोति स्वार्पणोद्यमात् । नश्यति संशयी चित्त, - चाञ्चल्यदुर्बलत्वतः ॥ २२७ ।। श्रात्मादितत्त्वविश्वासा-दाऽऽत्मशक्तिः प्रकाशते । श्रात्मादितत्त्वशङ्कात आत्मशक्तिर्विनश्यति ॥ २२८ ॥ श्रात्मादितत्त्वबोधेन, स्थिरप्रज्ञा प्रजायते । स्थिरप्रज्ञावतां योग, - सिद्धिश्च कर्मयोगिता ॥ २२६ ॥
For Private And Personal Use Only