________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
( २४ )
श्रात्मज्ञानं हि विश्वस्थ, -- लोकानां शान्तिकारणम् । श्रात्मज्ञानं हि लोकानां, पूर्णानन्दप्रदायकम् ॥२३०॥ आत्मज्ञानं हि सर्वासां - शक्तीनां मूलकारणम् । श्रात्मज्ञानं विना सत्य - स्थैर्यं कस्यापि नो भवेत् ॥ २३९ ॥ मनएवास्ति संसारो, मनो भवस्य कारणम् । आत्मायत्तं मनः स्वर्गं, मोक्षं च विद्धि मानव ॥ २३२ ॥ रागादिवासितं चित्तं यावत्तव प्रवर्तते । तावत्संसारएवाऽस्ति यद्योग्यं तत्समाचर ॥ २३३ ॥ प्रवर्तते यदा चित्तं रागद्वेषविनिर्गतम् । तदाऽऽत्मा प्रभुरुपोऽस्ति, निर्मोहं स्वं मनः कुरु ॥ ३२४॥ स्वर्गः श्वभ्रं च जीवोऽस्ति, शुभाशुभविचारतः । शुभाशुभमनोमुक्त, आत्मैव परमेश्वरः स्वार्थेन सर्वसम्वन्धा, बध्यन्ते सर्वदेहिभिः । स्वार्थं विना न सम्बन्धः केनाऽपि भुवि बध्यते ॥ २३६ ॥ स्वार्थं विना न जीवानां, रागोऽस्ति न प्रवर्तनम् । श्रात्मनो मुक्तये कर्म, - परमार्थं च तत्स्मृतम् ॥ २३७॥ अशुभं च शुभं स्वार्थ, त्यक्त्वा ब्रह्मणि रागिणः । निजाssत्मानं परब्रह्म, कुर्वन्ति रागनाशतः ॥ २३८ ॥ सर्वत्र स्नेहसम्बन्धान्, मिथ्या ज्ञात्वा निजात्मनि । लयलीनो भव प्रीत्या, मुह्यसि किं पुनः पुनः ॥२३६॥
॥ २३५ ॥
--
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only