________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २२ ) आत्मनः श्रद्धया पूर्णं,-चारित्रं सत्प्रकाशते। पूर्णानन्दो भवेत्तेन, मुक्ति: पश्चाद्भवेद्धृवम् ॥ २१०॥ प्रात्मानमन्तरा ज्ञानं, सुखं जडे न विद्यते । विज्ञायैवं परप्रीत्या, स्मराऽऽत्मानं क्षणेक्षणे ॥२११॥ आत्मोपरि परं प्रेम, कुरुष्वाऽऽत्म निजाऽऽत्मना । प्रात्मराज्यं विना शांति, जूता न च भविष्यति॥२१२॥ अहं त्वं तन्न यत्रास्ति, मनश्चारोऽपि यत्र न । निर्विकल्पं परं ब्रह्म, ध्यानेन हृदि भासते ॥ २१३ ॥ प्रारब्धं देहपर्यन्त,-माऽऽत्मना सह.तिष्ठति । अशुभे च शुभे व्यक्ते,-प्रारब्धे समतां धर ॥ २१४ ॥ सर्वजीवेषु मित्रत्वं, कुरुष्व ब्रह्मभावतः । सद्गुणानां कुरु प्रीति, माध्यस्थ्यं हृदि धारय ॥२१५॥ प्रात्मोपरि यथा प्रीति, स्तथा सर्वजनोपरि । शुद्धप्रीतिं कुरुष्वाऽऽत्मन् , क्रोधं वैरं विहाय भो ॥२१६॥ श्रेयः कुरु परप्रीत्या, वैरिणामपराधिनाम् ॥ मा कुरु वैरभावं त्वं, कलङ्कादिप्रदातृषु ॥ २१७ ॥ समभावं कुरु ज्ञाना,-टैरिषु स्तुतिकर्तृषु । अहितं मा कुरु क्रोधा,-त्केषांचिद् दुःखदायिनाम् ॥२१॥ महापापोपरि क्रोधं, मा कुरू भव्यचेतन। विश्वोपरि कृपादृष्टिं, धारय करुणोदधे ॥ २१६ ॥
For Private And Personal Use Only