________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १९) दासोऽसि जडरागेण ब्रह्मरागेण, भूपतिः । परतन्त्रं सुखं त्याज्यं, पुद्गलाधीनभावजम् ॥१८॥ मनोवाकाययोगानां,-शक्तिह्रासोऽस्ति भोगतः । लभ्यते ब्रह्मचर्येण, ध्यानमाऽऽत्मसुखं परम् ॥१८॥ अनन्तदुःखसम्प्राप्ति-नारीदेहादिभोगतः । सुखं तु दुःखरूपं हि, ज्ञात्वा कामं विनाशय ॥१८॥ व्यक्ते ब्रह्मोपयोगे तु, कामवृत्ति न तिष्ठति । तीव्र निकाचितं कर्म,-प्रारब्धं नैव नश्यति ॥१८३॥ सम्यग्दृष्टिपरैलॊकैः प्रारब्धकर्मयोगतः । भुज्यते कामभोगो हि, तीववैराग्यभावतः ॥१८४॥ कर्मणो निर्जरा बह्वी, स्वल्पबन्धोऽस्ति देहिनाम् । ज्ञानिनां हि गृहावास-वर्तितीर्थंकरादिवत् ॥१८५॥ कामभोगेऽपि भुक्ते हि, नासक्तिस्तत्र विद्यते । भोगानन्तरवैराग्यं, पश्चात्तापो भवेभृशम् ॥१८६ ।। कामभोगसुखश्रद्धा, तद्धृदि नास्ति बोधतः । श्रात्मन्येव सुखश्रद्धा, तद्धृदि निश्चिताऽपि सा ॥१८७॥ अध्यात्मज्ञानतो ज्ञानी, प्रारब्धकर्मशक्तितः। कामभोगे ह्यनासक्तो, भोगभोक्ता न बध्यते ॥१८८॥ अभोगी कामभोगेषु, भोगभोक्ता हि तादृशः । आत्मज्ञानी निरासक्त, अान्तरमोहवर्जितः ॥१८६ ॥
For Private And Personal Use Only