________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २० ) अज्ञानी जडभोगेषु, सुखं मत्वा विमुह्यति । सुखं हि कामभोगेभ्यो, जायते तस्य निश्चयः ॥१०॥ जडानन्दस्य विश्वासी, जडानन्दाय वर्तते। जडानन्दं विना ब्रह्म,-सुखस्य नास्ति निश्चयः ॥१६॥ स्पर्शेन्द्रियादिभोगेभ्यः सुखं मत्वा प्रजीवति । भोगान् भुक्त्वा पुनर्भोगा,-निच्छतिभोगरागतः॥१६॥ भोगान् भुक्त्वा प्रमोदी सः पुनस्तत्रैव मुह्यति । जडानन्दाय जन्माऽस्ति, जानत्येव हि मोहतः॥१९३॥ प्रज्ञानिनां भृशं तीव्र-कर्मबन्धपरम्परा । वर्तते निर्जरा स्वल्पा, भवेषु भ्रमणं भृशम् ॥ १९४॥ ज्ञानिनो मूढलोकाना-माहारादिप्रवर्तनम् । दृश्यते बाह्यतस्तुल्य, मन्तरे नास्ति तुल्यता ॥१६॥ पातालाकाशवज्ज्ञेय-मान्तरमन्तरं महद् । ज्ञानिनां च विमूढाना-मान्तरबाह्यदृष्टितः ॥१९६॥ न ज्ञानी बध्यते यत्र, नास्तिकस्तत्र बध्यते । ज्ञानमिथ्यात्वभेदेन, भेदोस्ति ह्यान्तरो महान् ॥१७॥ श्रान्तरदृष्टिमान् ज्ञानी, मिथ्यात्वी बाह्यदृष्टिमान् । मुक्त्यर्थं जीवति ज्ञानी, मिथ्यात्वी च भवाय हि ॥१९८॥ श्रात्मानन्दस्य विश्वासः सम्यग्दृष्टेरनन्तरम् । भवेत्तथापि दैवस्य,-सातभोगो विभुज्यते॥ १६६ ॥
For Private And Personal Use Only