________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
( १८ )
"
॥१७३॥
राज्ञामपि महाराजः स्वर्गेन्द्राणामधीश्वरः । श्रात्माराम स्त्वमेवाऽसि, किञ्चिन्न्यूनं न ते पदे ॥ १७० ॥ दाता त्वमेव सर्वेषां पुद्गलानां न भिक्षुकः । ज्ञानानन्दस्वरूपेण, देवोऽसि देहमन्दिरे ॥१७१॥ मा कुरु मोहविश्वासं, मोहेन स्वात्मविस्मृतिः । भवत्येव हृदि ज्ञात्वा कुरु मोहपराजयम् ॥ १७२ ॥ अनेकवृत्तिरूपेण, मोहश्चित्ते प्रजायते । श्रात्मोपयोगभावेन जायते मोहसंक्षयः कर्तुं निजात्मनो हानिं शक्ता इन्द्रादयोऽपि न । कर्मोदयं विना हानिं कर्तुं शक्ता न शत्रवः ॥१७४॥ श्रतः शत्रुषु मा वैरं कुरुष्व भव्यचेतन । शत्रुभि र्मा बिभेषि त्वं शुद्धरूपं विचारय ॥ १७५ ॥ उच्चनीचादयो भावा, बाह्येषु न चिदात्मनि । श्रात्मस्वरूपसंस्मृत्या, नश्यति मोहभावना ॥ १७६ ।। तीव्रकामोदये जाते, प्रारब्धकर्मयोगतः । अध्यात्मभावना तीव्रा, भाव्या वैराग्यकारिका ॥ १७७॥ तीव्रवैराग्यभावेन, तीव्रकामो विनश्यति । मुहुर्मुहुर्भृशं भाव्यं, शुद्धरूपं निजात्मनः ॥ १७८ ॥ परपुद्गलभोगेन, सुखं तु कल्पितं वृथा ।
भृशं दुःखं ततः पश्चा-ज्ज्ञात्वा स्वाऽऽत्मरतिं कुरु ॥ १७९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only