________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१७ ) प्रात्मराज्यं कुरु स्पष्टं, ज्ञानध्यानसमाधितः । बाह्यराज्यं मनोराज्यं, ब्रह्मराज्यं तु चान्तरम् ॥१६०॥ अप्रतिबद्धभावेन, साक्षिभावेन च स्वयम् । स्वाधिकारक्रियायोगी, निर्बन्धः सर्वकर्मसु ॥१६१॥ सर्वेष्वपि न सर्वेषु, त्वमगम्योऽसि मोहिनाम् । देहेऽकल्प्य कलावन्त,-मात्मानं वेद्मि बोधतः॥१६२॥ उन्मत्त इव जातोऽस्मि, शुद्धात्म न्ते स्वभावतः।। त्वत्स्वरूपे विलीनोऽह-मवधूतः स्वरागतः ॥ १६३॥ स्वमेवाऽहं त्वमेवाऽहं, देहस्थो देहसाक्षिकः । असंख्यातप्रदेशोऽहं, भजामि स्वाऽऽत्मना निजम्॥१६४॥ अनादिकालतः कर्म,-बलवदुःखदायकम् । मात्मा शुद्धोपयोगेन, ह्येकक्षणे निहन्ति तद् ॥१६५॥ अनन्तशक्तिमानाऽऽत्मा, तदने कर्मणो बलम् । किञ्चिदपि न विज्ञेयं, व्यक्ते ज्ञाने सति ध्रुवम् ॥१६६॥ अल्पकर्म प्रबध्नाति, करोति बहुनिर्जराम् । भुंजन्हि सर्वभोगान्स, ज्ञानी याति शिवं रयात् ॥१६७॥ प्रकाशाऽने तमोवृन्द, तिष्ठति न स्वभावतः । व्यक्त ज्ञाने तथा कर्म, तिष्ठति नेति भाषितम् ॥१६॥ भारतस्य महासम्राट, भरतो राज्यभोग्यपि । श्रात्मोपयोगतो जातः, केवली गृहसंस्थितः ॥१६॥
For Private And Personal Use Only