________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११) स्पर्शरूपेषु धावद्य-न्मनो वारय चेतन । रसगन्धेषु धावद्य-न्मनो वारय चेतन ॥ १५० ॥ कामभोगेषु धावद्य-न्मनो वारय चेतन । अल्पसुखं भृशं दुःखं, जायते कामभोगतः ॥ १५१ ॥ दुःखं मोहपरीणामा-सुखमाऽऽत्मस्वभावतः। दुःखं जडे सुखभ्रान्त्या, जडेऽहंवृत्तितश्च भोः ॥१५२॥ राज्यं शुद्धाऽऽत्मनो यत्त-त्पुद्गलमोहवर्जितम् । अनन्ताऽऽनन्दसम्पन्नं, तत्र प्रीतिं कुरुष्व भोः॥१५३॥ बाझराज्यं महामोह-युक्तं दुःखादिकारकम् । कामभोगकषायाद्यैर्युक्तं स्वातन्त्र्यनाशकम् ॥१५४॥ बाझराज्ये सुखं नास्ति, विष्ठासमं विजानत । भोगान्रोगसमान्विद्धि, ब्रह्मराज्ये स्थितिंकुरु ॥१५५॥ ब्रह्मदेशः स्वदेशोऽस्ति-तत्र प्रीतिं कुरुष्व भोः। आत्मदेशे सुखं सत्यं, दृश्यते ज्ञानचक्षुषा ॥ १५६ ॥ स्वतन्त्र आत्मदेशोऽस्ति, निर्भयो निश्चलः सदा । जन्ममृत्युजरातीतो, निराकारो निरञ्जनः ॥१५७ ॥ चिदानन्दस्वरूपोऽस्ति, स्वदेशः पूर्णनिर्मलः । अध्यात्मज्ञानतः पश्य, स्वदेशं पूर्णनिर्मलम् ॥१५८॥ बाह्यस्वदेशराज्येषु, मा मुहः सुखबुद्धितः। देहेन्द्रियवशं कृत्वा, ब्रह्मराज्यं कुरुष्व भोः ॥१५६ ।।
For Private And Personal Use Only