________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१५) आत्मज्ञानिगुरोः संगाद्, बोधादाऽऽत्मा प्रकाशते । गुरुं विना न बोधोऽस्ति, गुरुः सेव्यःसुमानवैः ॥१४॥ गुरुगमं विना ज्ञानं, कदापि नैव जायते । गुरुकृपां विना सत्यं, ज्ञायते नैव पण्डितैः ॥ १४१ ॥ सद्गुरोः श्रद्धया प्रीत्या, सेवया बहुमानतः । गुर्वात्मीभूतशिष्याणा,-मात्मज्ञानं प्रकाशते ॥ १४२॥ ब्रह्मभावनया ब्रह्म-रूपो भवति मानवः । सर्वत्र ब्रह्मभावेन, व्यापको भवति प्रभुः ॥ १४३ ॥ जडभावनया दुःखं, सुखमीश्वरचिन्तनात् । समाधिब्रह्मभावेन, यत्र तत्र यदा तदा ॥ १४४ ॥ आत्मा न नामरूपेषु, नामरूपादिवासनाम् । त्यत्क्वा ब्रह्मस्वरूपेण, सर्वविश्वं विलोकय ॥१४५॥ कीर्तेः सुखं न मन्यस्व, ज्ञात्वा स्वप्नोपमं जगत् ।
आत्मन्येव कुरु प्रीति, मा मुहः पुद्गलेषु वै ॥ १४६ ॥ वर्णगन्धरसस्पर्श-युक्तेषु जडवस्तुषु । नास्ति ब्रह्मसुखं सत्यं,मामुहस्तत्र चेतन!!!॥ १४७॥ पुद्गलभोगतः शर्म, जायते तत्तु कल्पितम् । पश्चाहःखं भृशं ज्ञात्वा, जडभोगं न वांछय ॥ १४८ ॥ नरस्त्रीदेहरूपेषु, स्पर्शेषु न च शर्मता। सुखं न स्पर्शरूपेभ्यो, मा मुह स्तत्र चेतन ॥ १४९ ॥
For Private And Personal Use Only