SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१७) दर्शनं वर्तनं जीवैः, सार्धमाऽऽत्मैक्यभावतः । भवेदध्याऽऽत्मबोधेन, ब्रह्मानन्दप्रकाशकम् ॥ १३०॥ निजाऽऽत्मनि परप्रेम, कुरुष्व मोक्षहेतवे । आत्मानन्देन जीव !! त्वं,मा जीव !! देहजीवनात्॥१३१॥ चिदानन्दस्वरूपं हि, चेतनस्य स्वभावतः । यस्य प्रकाशते तस्य, साक्षादाऽऽत्मा प्रभुःस्वयम्॥१३२॥ ज्ञानानन्दस्वरूपोऽस्ति, निजाऽऽत्मा शाश्वतः प्रभुः । याचको न च दीनोऽस्ति, लिङ्गी जातिर्न रूपवान् ।१३३॥ भिद्यते छिद्यते नैव, न च कालेन भक्ष्यते । द्रव्यरूपेण नित्योऽस्ति, पर्यायेण ह्यशाश्वतः ॥१३४॥ मृतोऽपि देहभावेन, ज्ञानानन्देन जीवति । जडानन्दविमुक्तो य, आत्मानन्दमहोदधिः ॥ १३५॥ देहस्थितोऽपि वैदेह, आत्मारामो हरिहरः। स्वानुभवेन गम्योऽस्ति, सच्चिदान्दरूपवान् ॥ १३६ ॥ नाशो न देहनाशेऽपि, चेतनस्य स्वभावतः । भिन्नो यः पञ्चभूतेभ्यः सोऽहमाऽऽत्मा तनुस्थितः।१३७॥ स्वान्यविश्वस्य वेत्ताऽहं, पुद्गलस्थो न पुद्गली । कर्मपर्यायभिन्नोऽस्मि, ब्रह्मरूपः सनातनः ॥ १३८ ॥ अनन्तज्ञानवान्पूर्णो, देवो विभुर्निरञ्जनः । निराकारश्च साकारो, हलक्ष्यो चित्तबुद्धितः ॥१३६ ।। For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy