________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७) मूढनास्तिकलोकानां,-संगस्त्याज्यो विवेकतः। आत्मसाधकभव्येन, प्रभुः शोध्यो हृदि स्वतः ॥ ६० ॥ योगभेदसमूहोऽपि, चिदानन्दप्रकाशने। हेतुरेवं परिज्ञाय, मा मुहः साधनेष्वपि ॥६१ ॥ योगसाधनभेदेषु, धर्मभेदेषु च क्वचित् । ज्ञानिनो नैव मुह्यन्ति, सम्य विज्ञानशक्तितः ॥६॥ सर्वदर्शनभेदेषु, विरुद्धेषु सुपण्डिताः। रागद्वेषौ न कुर्वन्ति, शुद्धब्रह्मोपयोगिनः ॥६३॥ क्रियादिमतभेदेषु, सर्वधर्मेषु पण्डिताः । मुह्यन्ति नैव सर्वत्र, सम्यज्ञानोपयोगिनः ॥६४॥ परस्परविरुद्धेषु,-धर्मेषु ब्रह्मवेदिनः । यत्सत्यं तत्प्रगृह्णन्ति, सापेक्षनयदृष्टितः ॥६५॥ सर्वदर्शनधर्मेषु, सत्यस्य तारतम्यता। विद्यतेऽतः प्रजीवन्ति, जीवत्स्वरूपशक्तितः ॥६६॥ सर्वनयस्यसापेक्ष,-ब्रह्मज्ञाने कृते सति ॥ धर्मदर्शनभेदेषु, सत्यज्ञानं प्रकाशते ॥६७॥ परस्परविरुद्धेषु,-धर्मेषु दर्शनेषु च। सत्यं सापेक्षिकं यत्तद्, गृह्णन्ति नयकोविदाः ॥ ६८॥ सर्वदर्शनधर्माणां,-सापेक्षनयदृष्टितः। जैनधर्मे समावेशो, विश्वधर्मस्ततोऽस्ति सः ॥६६॥
For Private And Personal Use Only