________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ६ )
आत्मशुद्धोपयोगस्य - प्रवाहेण शुभाशुभम् । बाह्येषु भासते नैव, स्वाऽऽनुभवः प्रकाशते ॥ ५० ॥ आत्मानमन्तरा कोऽपि, नाऽन्यः प्रियतमो भुवि । यत्सत्त्वे सर्वसत्त्वं वै, स्वाऽऽत्मध्यानं कुरुष्व भोः ॥ ५१ ॥ आत्मोपयोगतः स्वाऽऽत्मा, ध्येयः प्रतिक्षणं बुधैः । आत्मसमाधिना स्थेय - माSSत्मनि शर्महेतवे ॥ ५२ ॥ ज्ञानानन्दप्रकाशार्थं, ध्यानाद्याः सन्ति हेतवः । सर्वसाधनतः साध्या ज्ञानानन्दप्रकाशता ॥ ५३ ॥ आत्मानमन्तराऽन्यत्र, सुखं बुद्धिं न धारय । आत्मसुखस्य भावेन, संजीव त्वं प्रतिक्षणम् ॥ ५४ ॥ निक्षेपैश्च नयैर्भङ्गैः, किं कथायाः विकल्पकैः । तैर्विना निर्विकल्पाऽऽत्मा, भासते स्वोपयोगतः ॥५५॥ शास्त्रसंज्ञां तथा लोक, -संज्ञां कीर्त्यादिवासनाम् । नामरूपादिमोहं च त्यक्त्वाऽऽत्मनि रतो भव ॥ ५६ ॥ सर्वकामविनिर्मुक्तो भविष्यसि यदा तदा । पूर्णानन्दमयः स्वाऽऽत्मा, स्वस्मिन्स्वेनानुभूयते ॥५७॥ सर्वेन्द्रियस्य भोगेषु, सुखं दुःखं न भासते । समत्त्वं भासते व्यक्तं, सुखं व्यक्तं तदाऽऽत्मनि ॥ ५८ ॥ व्यक्ताऽऽत्मा जायते नैव, राज्यसत्ताधनादिभिः । आत्मानन्दप्रकाशार्थं, नास्ति जडस्य हेतुता ॥ ५६ ॥
"
For Private And Personal Use Only