________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८) एकमेव चिदानन्द,-माऽऽत्मानं निर्विकल्पकम् । निर्विकल्पोपयोगेन, ध्यायन्ते पूर्णरागतः ॥ ७० ॥ संकल्पैश्च विकल्पैश्च, भिन्ना ब्रह्मणि संस्थिताः। भवन्ति प्रभवो जित्वा, रागद्वेषात्मकं मनः ॥७१ ॥ जिते चित्ते जगत्सर्व, जितं निजाऽऽत्मना ध्रुवम् । न जितं स्वं मनस्तर्हि, निष्फला धर्मसाधना ॥७२॥ यैर्जितं न मनस्ते तु, इन्द्राद्या अपि पामराः। जितं स्वं मनस्ते तु, भिक्षवोऽपि महेश्वराः ॥७३॥ ग्राह्य त्याज्यं च चित्तेषु, यस्य किञ्चिन्न भासते। साक्षी कायादिकार्येषु, ब्रह्मज्ञानी स उच्यते ॥७४ ।। जडस्य सर्वभावेषु, स्वाऽऽत्मनः पर्यवेषु च। अहंत्वमितिमोहेन, स्वाऽऽत्मशुद्धि न जायते ॥ ७५ ॥ अहं ज्ञानी ह्यहं ध्यानी,-त्यपि मोहस्य चेष्टितम् । महत्वभावमुक्तो यः, सातिभावेन जीवति ॥७६ ॥ मनःसंकल्पयोगेन, संसारस्त्वेव कथ्यते ।। यत्र मनोजयस्तत्र, मोहवृत्तिर्न जायते ॥७७॥ श्रात्मशुद्धोपयोगेन, साक्षीभूतो मनस्यपि । अक्रियः सर्वकर्ताऽपि, मुक्तः स बन्धनेष्वपि ।। ७८ ॥ सद्गुणेषु च दोषेषु, स्वान्येषु साक्षिभावतः । वर्तते यो महाज्ञानी, समयोगी भवेत्सहि ॥७६ ॥
For Private And Personal Use Only