________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राता
कुपथानि नयाभासाः सापेक्षाज्ञानिनामिमे । एकैकस्मानयाजातं दर्शनं नाऽन्यपेक्षितम् ॥४६८ ॥ अन्धौ नद्यो यथा मान्ति मतानि जैनदर्शने । अन्यत्र जिनवाणी तु प्रायत्वेन प्रवर्तते ॥४६६ ।। कर्माष्टक विनाशेन परमात्मा प्रकाशते । नश्यन्ति भवचक्राणि क्षायिकधर्म उद्भवेत् ॥४७० ॥ प्रवर्तते सुखानन्त्यं सिद्धानां समयं प्रति । पूर्वप्रयोगतः सिद्धा उर्ध्व यान्ति शिवालयम् ॥ ४७१ ॥ याति नो मस्तिर्यक् यसात्सोऽस्त्यक्रियः स्थिरः । नौमि तादृग् विभुं नित्यं, कदा प्राप्स्यामि धाम तद् ॥४७२॥ साधनन्तस्थितिप्राप्तं तं सिद्धं नौमि भावतः। केवलज्ञानतो वेत्ति सर्व यश्च तमाश्रये ॥४७३ ।। खेदो हि व्यवहारेऽस्ति भेदेनात्मपरात्मनोः । भेदभावो न यत्रास्ति शुभं तत्रास्ति निश्चयात् ।। ४७४ ॥ आत्मरूपं यदा पश्येदुत्तमदृष्टिरुद्भवेत् । शृणु पठाऽऽखिलान्ग्रन्था-नात्मदृष्टि हि मुक्तिदः ॥४७॥ दध्यात्कोऽप्युत्तमां दृष्टिं सिद्धो याति शिवालये। ज्ञानादिगुणसाफल्यं समभावेन पश्यताम् ॥४७६ ॥ शत्रौ मित्रे च साम्येन शुद्धधर्मः प्रकाशते ।। देहे सति विदेहोऽसौ किं भयं चेद्दशेडशी ॥४७७ ॥ निग्रन्थिने नमस्तसै यस्य दृष्टिः शिवाध्वनि । लभे सद्गुरुमेवं चेत्तदा निजगुणं लभे ॥ ४७८ ॥ शैत्यं तापाश्रयानश्येत् पापान्तः साधुसंगतः। तन्मन्यस्व गुरोराज्ञा लमध्वं शाश्वतं पदम् ॥ ४७६ ॥
For Private And Personal Use Only