________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकदीपकज्योति-यथैकदीपकार्चिपि । मरूपिणस्तथा सिद्धा मान्ति दोषो न वर्तते ॥४५६ ॥ विषामा विषयाः सन्ति बहिरात्मपदं जहि ।। यस्य मोक्षपदेच्छाऽस्ति योग्यः स धर्मकर्मणि ॥ ४५७ ।। दुःखात्यन्तिकनाशं हि मुक्तिं वैशेषिका विदुः । मन्यते मानसं नित्यं मुक्तौ चेतः सहात्मना ॥ ४५८ ॥ बुद्ध्यादीनां यतो नाशस्तत्र मोक्षेऽस्ति किं सुखम् । तस्मात्तु जम्बुक:श्रेष्ठ-स्तस्मा च्छेष्ठोऽस्ति मानवः ॥ ४५६ ।। वेदान्तिनो जगु मुक्तिं जगद्व्यापक चेतनम् । चेतनो व्यापको नाऽस्ति शिवाशा स्यात्तथा कथम् ।।४६०॥ मुक्तिमार्यसमाजास्तु भाटकागारवजगुः मुक्तितो जीव आयाति मुक्ति र्दुःखहरी न सा ॥४६१ ॥ कर्मक्षयान्न संसारो मुक्तो जन्म धरेत्कथम् । गायति मुक्तिमेकस्तु महत्तामसकूपवत् ईश्वरं प्राप्तुमिच्छाचेद् विश्वासं कुरु तस्य च । विश्वासीश्वरदासश्च "मुक्ति फौजे" मिलेद्धृवम् ॥४६३॥ ईशुरीश्वरपुत्रोऽस्ति जगत्सूत्रं तनोति सः।। शरीरेण यतो मुक्ति जन्ममृत्युक्रमस्ततः ॥ ४६४ ।। अन्धो भ्राम्यति कुञ्जेषु किन्तु गेहं न गच्छति । ज्ञानचक्षु यंदा चित्ते तदा मुक्ति विलोक्यते ॥४६५ ॥ साक्षरा न च गृह्णन्ति तादृग् मुक्तिं कदापि न । केपि क्रियां हि मन्यन्ते केऽपि ज्ञानं दधन्ति च ॥४६६।। खएडयन्त्येक एकाँश्च म्रियन्ते पक्षपाततः । पचापचौ हि चैकान्ते दक्षो विन्ते नयद्वयम् ॥४६७ ।।
॥४६२॥
For Private And Personal Use Only