SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मतेधश्रद्धया रागस्तस्यागो ज्ञानतो भवेत् । जातौ लिंगे च मोक्षाश-स्तस्य मुक्ति न जायते ॥४४४|| पंचकारणसंघेन सम्यक्त्वेन निजाऽऽत्मनः । मोक्षो भवति लोकानां तत्र किश्चिन्न संशयः ॥ ४४६ ॥ भवमुक्त्यो नचाऽस्त्यादि-रनाद्यौ द्वौ प्रवाहतः । अनेकान्तस्य विश्वासान्मिलन्ति मुक्तिहेतवः ॥४४७ ।। केवलज्ञानिनां वाणी श्रुतपूर्वा शिवाधगा। सत्यं शब्दैकभावोऽस्ति तीर्थकद्वचनं त्विदम् ॥ ४४८ ॥ एकशब्दोऽस्ति मोक्षादिः सत्यं तस्माद्विवेचय । यस्य बन्धोऽस्ति तन्मुक्ति स्तत्रासत्यं न कश्चन ॥ ४४६ ॥ शिष्य उवाच । पदस्थानकं भवत्प्रोक्तं गुरुदेवानुकम्पया। श्रद्धया मे गतास्ते तु कुविचारा अनादिजाः ॥४५० ॥ श्रद्यपर्यन्तमंज्ञानात्तत्त्वज्ञानं न लब्धवान् । वन्देऽहं सद्गुरो ! त्वां च पवित्रोऽहं कृतस्त्वया ॥ ४५१ ।। धर्मरत्नं मयालब्धं निधानं परमीक्षितम् । शरणं तेऽस्मि हे नाथ! कश्चिन्नास्ति त्वया समः ॥ ४५२ ॥ अनादिकालतो भ्रान्तः किन्तु नान्त मुपेयिवान् । सम्यक्तत्वप्रबोद्धारं गुणिनं त्वां नमाम्यहम् ॥४५३ ॥ शिष्य उवाच । कथं सिद्धालये मान्ति धनन्तसिद्धराशयः । निराकुरु च मे शङ्कां यस्माच्छङ्का न जायते ॥४५४ ॥ सद्गुरुरुवाच. सिद्धशिलोपरि स्थानं शाश्वतं च प्रवर्तते । कर्मनाशेन जीवोऽयं भगवाँस्तत्र जायते ॥४५५॥ For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy