________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.३८
परभावेषु जीवस्य त्वनन्तसमयो गतः । आत्मचिन्तनयोगेन मुक्तिरेव प्रकाशते ॥४३४ ।। संयोगेऽस्ति वियोगो हि दृष्टान्तोऽत्र कलेवरः । सर्वकर्मवियोगेन जायते मुक्तिरात्मनः ॥ ४३५ ॥
. शिष्य उवाचअस्तिता याऽस्ति मोक्षस्य सा त्वस्माभिः प्रवेद्यते । ध्वंशः कदापि नैव स्या-दनन्तभवकर्मणाम् ॥ ४३६ ।। भिन्नदर्शनधर्माश्च मुक्त्युपाया अनेकशः।। तत्र सत्यमसत्यं किं चित्ते नास्त्यस्य निर्णयः ॥ ४३७ ॥ कुत्र देशे क्व जातौ वा मोक्षः कुत्र पथि स्थितः । निश्चय स्तस्य नैव स्याद-भिलष्येत्तदात्र किम् ॥ ४३८॥
आदौ भवोऽथवा मुक्तिः को वाऽऽद्यो जीवसिद्धयोः । इत्यादौ चिन्तयश्चित्ते मोक्षसिद्धि ने जायते ॥४३६ ।।
सद्गुरुरुवाच । मोक्षो ज्ञानक्रियाभ्यां स्या-दूचे सूत्रं जिनेश्वरः । स्फुलिंगै दह्यते काष्ठं तथा ध्यानेन कल्मषः ॥ ४४० ।। यस्यास्ति जन्मनो रोगो नीरोगी औषधाद्भवेत् । अनन्तभवभूतानां कर्मणां नाशतः शिवम् ॥४४१ ॥ तमो व्याप्नोति संसारं नश्यति भास्करोदयात् । सत्यज्ञानं यतस्तत्र को भारः कर्मणां भवेत् ॥ ३४२ ॥ यज्ज्ञानावरणीयाद्य-कर्मणामष्टकं मतम् । मोहनीयं ततःश्रेष्ठं प्रजासु भूपति यथा ॥४४३॥ तमाशे सर्वनाशोऽस्ति जितभूपात्प्रजा यथा ।। कर्मनाशात्सुखं शश्वत्कः सत्येऽध्वनि संशयः ॥४४४ ॥
For Private And Personal Use Only