________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विरुद्धबुद्धियोगेन नाशोऽस्ति विषभक्षणात् । प्राणानां वेत्तु भो भव्य तत्र न्यायोऽस्ति नैश्वरः ॥४२४॥ स्वयमेव सुखं दुःखं जीवः प्राप्नोति कर्मणा । ईश्वरप्रेरणा मिथ्या सुखं दुःखं च कर्मणा ॥४२५ ॥ सदा निःसंग आत्माऽयं दृश्यो निश्चयसत्तया । व्यवहारेण कर्ताऽस्ति चेतनः सुखदुःखयोः ॥ ४२६ ॥ अकर्ता सत्यमात्माऽयं कर्मनाशेन दृश्यते । नयेन तस्य बोधेन शुद्धधर्मः प्रकाशते ॥४२७ ॥
शिष्य उवाच । न्याययुक्तैश्च दृष्टान्तः कर्मकर्ता विलोक्यते । किं जानाति जडं कर्म फलपरिणामवद्भवेत् ॥४२८ ।।
गुरुरुवाच । यद्यप्यस्ति जडं कर्म चामृतविषवत्तु तद् । सुखदुःखनिमित्तं स्यात्तत्र केश्वरकल्पना ? ॥४२६ ॥
शिष्य उवाच । का भोक्ताऽस्ति जीवस्तु तस्य मोक्षो न वर्तते । अनन्तसमयो नष्टो मुक्ति मद्यापि नाऽऽप सः ॥ ४३० ।। भुनक्ति मानवः स्वगै पुण्यानां फलमुत्तमम् । अथ पापफलं भुंक्ते जायमानश्च दुर्गतौ ॥४३१ ।। पापपुण्यफलं भुंक्ते जीवो गत्वा चतुर्गतौ । प्रतिक्षणं धरन्कमे कर्महीनः कदापि न ॥४६२ ।।
- सद्गुरु रुवाच । अशुद्धपरिणामेन फलदं कर्म वर्तते । तथा निवृत्तिधर्मेण सिद्धस्तिष्ठति निर्वृतौ ॥ ४३३ ॥
For Private And Personal Use Only