________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लाक्षारसस्य योगेन बीजं कार्यासिकं यथा ।। रक्कं तूलं च यद्वत्स्यात् कर्मबन्धफलं तथा ॥ ४१५ ॥ नाशयदष्टकर्माणि शुद्धः स्याचेतनस्तदा । प्रात्मस्वभावत चात्मा लभते तात्त्विकार्द्धकम् ॥ ४१६ ॥
शिष्य उवाच अनादिकालतः संगो वर्तते जीवकर्मणोः । कर्मणां स्यात्कथं नाश स्तत्र किम्वाऽस्ति कारणम् ॥४१७॥
गुरुरुवाच अनादिपरिणामी सन् मिथ्या भ्रान्तोऽस्ति चेतनः । मुच्यते चेतनः खानौ रजःकनकवत्पृथक् ॥४१८ ॥ योगेन श्रीश्वरेच्छायाः सुखं दुःखं कुतो भवेत् । प्रेरणा श्रीश्वरीया चे-दीशो दोषी विलोक्यते ।। ४१६ ।।
गुरु रुवाच ईश्वरप्रेरणा कस्मा दीशोऽन्यायी भवेत्तदा । अपराधी तथा न्यायी स्वयं स्यादीश्वरस्तदा ॥ ४२० ॥
शिष्य उवाच प्राणिनः कर्म कुर्वन्ति सामय्या अनुसारतः। ईशो दुःखं सुखं दत्ते चाकर्ताऽऽत्मा विलोक्यते ॥ ४२१ ॥
गुरुरुवाच कृत्यं करोति यो भुंक्ते सैव दुःखं तथा सुखम् । योति न तृप्ति माप्नोति क्षुधां हन्ति नच प्रभुः ॥४२२॥ वह्नौ विपति यो हस्तं ज्वलन्तं करमीक्षते । स्वयं कर्ता हि जीवोऽस्ति प्रेरकः कथमीश्वरः ॥४२३ ॥
For Private And Personal Use Only