________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्यं जन्म तदा मे स्याबदा शिवपुरं लभे । दावाग्निरेष संसार स्तत्यारं च कदा लभे ॥४८० ।। यदैवं चिन्तनं चित्ते दोषा यास्यन्ति तत्पृथक् । मात्मध्याने क्षणं यत्स्या-च्छेष्ठं तद्धि भवक्षणम् ॥ ४८१ ॥ व्याप्योऽस्ति प्रतिदेहं स वाच्यो यन्महिमा नहि । यश्च नामी तथाऽनामी कदा तदर्शनं लभे ॥४८२ ॥ यत्र शब्दो न गन्धोऽस्ति नास्तिको यं न पश्यति । जहाँ लेभेऽतिदेहान्स किन्तु नित्यः स वर्तते ॥४८३ ॥ नादिन्तिश्च यस्याऽस्ति तस्मात्सोऽस्त्यजरोऽमरः । योग्यपि कथ्यते भोगी चेतनं तं नमाम्यहम् ॥४८४ ॥ यस्य ध्यानेन सौख्यं स्या-दुःखान्तो मृत्युजन्मनोः । यस्याऽपारा गुणा सन्ति जाति लिगं यतो नहि ।। ४८५ ।। एकरूपत्रिकालेषु स्वपर्यायगुणाश्रयः । क्रमवर्ती तु पर्यायः सहभावी गुणः पुनः ॥४८६ ॥ षड्द्रव्ये वर्तनन्त्वेवं चिन्तनाल्लभ्यते शिवम् । शुक्लध्यानं च तेन स्याच्छास्त्रे निश्चयभाषितम् ॥ ४८७ ।। षड्द्रव्ये निखिलं माति सूत्रे वक्ति जिनेश्वरः । चेत्सौक्ष्म्येषा भवेज्ज्ञानं मुक्तिःस्यात्वल्पजन्मना ॥४८॥ निश्चयदृष्टिभाचित्ते व्यवहाराद्गुणीभवेत् । भवपारं स नो याति एकान्ते व्यवहारवान् ॥४८६॥ नास्ति कश्चिन्मृषा तत्र सर्वज्ञोक्तनयद्वये। निश्चयरूपकार्यस्य व्यवहारोऽस्ति कारणम् ॥४६० ॥ तरन्ति भवपाथोधि पडावश्यकारिणः । यस्य कर्मास्ति दम्भाय भ्राम्यति स भवोदधौ ॥४६१॥
For Private And Personal Use Only