________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुगमावबोधेन सप्तमंगी विचार्य च । आत्मस्वभावमध्यस्थो भवदुःखं निवारय ॥३३६ ॥ तत्वबोधोऽतिगम्भीरो जानन्ति विरला जनाः । भवं तरति मेधावी कृत्वा कर्मक्षयं द्रुतम् ॥३३७ ॥ सिद्धानां गुणपर्याये सप्तभंगी प्रवर्तते । जायते शुद्धसम्यक्त्व-मनेकान्तावबोधतः ॥ ३३८ ॥ षड्द्रन्यनवतत्त्वानां सत्यज्ञानं यदा भवेत् ।। ज्ञानी जन स्तदा शीघ्रं लभते श्रीशिवं पदम् ॥ ३३६ ॥ सम्यक्त्वमोहिनीत्यादे रुपशमादिकं यदा । भवेत्तदा हि सम्यक्त्वं जायते भव्यदेहिनाम् ॥ ३४० ॥ स्वगुणस्थैर्यचारित्रा-गुणोद्योतश्च जायते ।। परमात्मा स्वयं शुद्धः शुद्धज्योतिः प्रकाशते ॥३४१ ॥ गुणस्थानस्य संस्पर्शा स्वयं गुणः प्रकाशते।। परिपूर्णो निजव्यक्त्या लभते चाऽचलं पदम् ॥ ३४२ ।। पदस्थानकावबोधेन सम्यक्त्वं च प्रकाशते । षट्स्थानकं सदा धेहि जायते च गुणः स्वयम् ॥३४३ ॥ आत्मानः सन्त्यनन्ता हि तेषां मेदाविमौ मतौ। संसारिणोत्र सिद्धाश्च इति सम्यग् विचारय ॥३४४ ।। आत्मा नित्यश्च कर्ताऽथ हर्ता स्वकर्मणां मतः। मोक्षोपाय श्च मोक्ष श्च इति षट् स्थानकं मतम् ॥ ३४५ ॥
शिष्य उवाच । स दृष्ट्या नैव दृश्योऽस्ति स्पर्शग्राह्यो न वर्तते ।
आत्मद्रव्यास्तिता नैव जायते चानुभूतितः ॥३४६ ।। मन्यतां देहमात्मानं श्वासोच्छ्वासं च मन्यताम् । मूर्तिश्च पंचतत्रानां नान्याभासो विलोक्येत ॥३४७॥
For Private And Personal Use Only