________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घटेते द्वौ न चैकत्र एवं पृच्छति पृच्छकः । नैको हि घटते धाम तेजोन्धयो विरोधिनोः ॥३२४ ॥ नैकस्मिन् ब्रह्मसूत्रेण नैकत्र द्वौ च तिष्ठतः।। अस्तिता नास्तिता क्वापि नैकत्र तद्गुरोऽस्ति किम् ? ॥३२।। घटतेऽपेक्षया सर्व तथा सर्व च वेद्यते । पितृत्वमथ पुत्रत्व-मेकत्र द्वेऽपि तिष्ठतः ॥ ३२६ ।। परत्र नास्तिरूपं तदस्तित्वं चेतनस्य यद् । नान्यत्र यदि नास्तित्वं वस्तुरूपं न सम्भवेत् ॥३२७ ॥ अस्तिता न विनाऽपेक्षां नास्तिताऽपि न तां विना । नैकस्मिनिति सूत्रं तु स्याद्वादेनावलोक्यते ॥३२८ ।। अस्तिता यत्र कालेऽस्ति तत्कालेऽस्ति च नास्तिता । वर्तनां चैककालेषु षड्द्रव्येषु विलोकय ॥३२६ ।। स्यादस्तिनास्तभंगश्च तृतीयः कथितः पुनः । षड्द्र्व्य व्यापको ज्ञेयो जैनदर्शनमर्म तद् ॥३३० ॥ अस्तिशब्दसमुच्चारे यान्ति काला असंख्यशः । नास्तिशब्दसमुच्चारे तथैव भगवान् जगौ ॥३३१ ॥ एकस्मिन् समयेऽवाच्य मस्तिनास्तिस्वरूपकम् । तुर्यभंगोऽस्त्यऽवक्तव्यः कथितः मूरिपुंगवैः ॥३३२ ।। अस्तिधर्मा अनन्ता हि येत्र वाचामगोचराः।। स्यादस्त्यऽवाव्यभंगोऽयं पंचमः परिकीर्तितः ॥ ३३३ ।। अनन्ता नास्तिधर्मास्तु वस्तुमध्ये वसन्ति हि । स्यानाऽस्त्यवाच्यभंगोऽयं षष्ठोऽपि परिकीर्तितः ॥३३४॥ अस्ति नास्ति सदा द्वौ स्तो निर्वक्तव्या विमौ मतौ। स्यादस्ति नास्त्यवक्तव्यो युगपत्सप्तमो मतः ॥३३५ ॥
For Private And Personal Use Only